Enter your Email Address to subscribe to our newsletters

कोलकाता, 02 नवंबरमासः (हि.स.)पश्चिमबङ्गराज्ये मतदातृसूचीसंशोधनार्थं महत्त्वपूर्णं निर्णयं गृह्य निर्वाचनआयोगेन स्पष्टीकृतम् यत् नवम्बरमासस्य चतुर्थदिनाङ्कात् आरभ्यमाणे विशेषगहनपरीक्षणकार्यक्रमे (स्पेशल इंटेन्सिव रिव्यू) येषां जनानां प्रपत्राणि समये न समर्पितानि भविष्यन्ति तेषां नामानि पृथक् सूच्यां स्थापितानि भविष्यन्ति इति।
निर्वाचनआयोगस्य एकः अधिकारी अवदत् यत् प्रारूपमतदातृसूची नवम्बरानन्तरं डिसेम्बरमासस्य नवमे दिने प्रकाशिताभविष्यति। किन्तु तस्मात् पूर्वमे एव एतत् निर्दिष्टं भविष्यति यत् केषां जनानां प्रपत्राणि न प्राप्तानि च तेषां नामानि मृतानां मिथ्यादातृणां अन्यत्र स्थानान्तरितानां वा वर्गे स्थाप्यन्ते। एतेन उपायेन वास्तविकमतदातॄणां नामानि सूच्यां न लुप्येरन् इति सुनिश्चितं भविष्यति।
निर्वाचनआयोगस्य एषः निर्णयः तस्मिन्नेव काले प्राप्तः यदा राज्ये अस्मिन् विषयसंबन्धिनी राजनैतिकउष्णता अतीव वर्धमाना आसीत्। तृणमूलकाँग्रसेन चेतावनी दत्ता यत् यदि वास्तविकस्य मतदातुः नाम सूचीतः अपगतं दृश्येत् तर्हि जनाः मार्गेषु अवतार्य विरोधं करिष्यन्ति इति।
अभियानं त्रिषु चरणेषु सम्पन्नं भविष्यति। प्रथमचरणे नवम्बरमासस्य चतुर्थदिनाङ्कात् आरभ्य स्तरीयकक्ष्यायाः अधिकारीगणाः (बूथ लेवल ऑफिसर) गृहात् गृहम् गत्वा प्रपत्राणि वितरिष्यन्ति च तानि पूरितानि प्रपत्राणि पुनः संग्रहीष्यन्ति। ततः प्रारूपसूची प्रकाश्यते।
अनन्तरं द्वितीयः चरणः आगमिष्यति यत्र मतदातृगणाः राजनैतिकदलगणाश्च नाम्नां वर्णदोषं स्थानपरिवर्तनं वा निर्दिश्य आपत्तयः समर्पयिष्यन्ति। आयोगः तासां आपत्तीनां परीक्षणं करिष्यति।
अन्त्यचरणे निर्वाचनपञ्जीकरणाधिकारिणा सर्वासां शिकायतानां विषये अन्तिमनिर्णयः दीयते ततः परं अन्तिममतदातृसूची प्रकाश्यते। सम्पूर्णप्रक्रिया मार्च् 2026 पर्यन्तं सम्पन्ना भविष्यति।
स्मरणीयं यत् पश्चिमबङ्गराज्ये एतादृशः अन्तिमः विशेषगहनपरीक्षणकार्यक्रमः सन् 2002 तमे वर्षे एव सम्पन्नः आसीत्।
---
हिन्दुस्थान समाचार