Enter your Email Address to subscribe to our newsletters

नैनीतालः, 2 नवंबरमासः (हि.स.)। सरोवरनगर्यां नैनीताले प्रसादभवने भारतीयसांस्कृतिकसम्बन्धपरिषदस्य उत्तराखण्डपर्यटनविभागस्य च सहकार्ये आयोजितः “हिमालयन् इकोज्” इति साहित्यकला-महोत्सवस्य दशमसंस्करणं पारम्परिकशङ्खनादेन प्रारब्धम्। अस्मिन् सम्मेलने देशविदेशाभ्यागताः सप्ततिः अधिकाः साहित्यकाराः, कलाकाराः, चिन्तकाः च सहभागीभवन्ति स्म। अस्मिन् अवसरे नेपालदेशात् आगतः साहित्यकारः सुजीवशाक्यनामकः स्वग्रन्थं “नेपाल 2043 : द रोड् टू प्रॉस्पेरिटी” इत्यस्य विषये विचारप्रस्तुतीं कृत्वा नेपालदेशे जातं जेनजी आन्दोलनं तत्र च विकासदिशां प्रति स्वविचारान् प्रकटयत्। लेखिका अनुराधारायनाम्नी स्वस्य आगामिग्रन्थं पर्वतीयजीवनेन च सम्बन्धितानुभवान् सह प्रेक्षकैः साझा कृतवती। सा अवदत् यत् पर्वतीयजीवनमेव तस्याः लेखनसंवेदनां दृष्टिकोणं च आकारयति।
भूटानदेशीयकलाविदुषी लेकी त्शेवाङ् नाम्ना कलाकार्या पारम्परिकवाद्ययन्त्रैः सह भूटानीय-हिन्दी-पर्वतीयगीतानां प्रस्तुति प्रदत्ता। पर्यावरणसंरक्षणसम्बद्धे सत्रे नेहा सिन्हा, पत्रकारिका गार्गी रावत च भारतस्य वन्यजीवसंरक्षणविषये स्वविचारान् अवोचताम्। तदनन्तरं अरुन्धतीनाथ, निहारिका बिजली च बंगालीभूतकथापरम्परायाः विषये चर्चां कृतवत्यौ, तदा “नैनीताल् मेमोरीज्, स्टोरीज् एण्ड् हिस्ट्री” इत्यस्य नाम्ना ग्रन्थस्य विमोचनं च कृतम्।
मुख्यवक्ता प्रख्यातकलाइतिहासविदुषी डॉ॰ अल्का पाण्डे नाम्ना इतिहासस्य, पौराणिककथानां, पर्यावरणस्य च अन्तर्सम्बन्धविषये विस्तृततया विचारान् व्यक्तवती। सा अवदत् यत् आदिवासीज्ञानप्रणाल्यः अस्मान् शिक्षयन्ति यत् अध्यात्मपर्यावरणयोः स्वरूपं एकस्मिन्नेव सत्ये निबद्धम् अस्ति। सा कवेश् कालिदासस्य सन्दर्भे हिमालयं जीवन्तात्मरूपेण द्रष्टुं प्रेरयामास। राहुलभूषणः शगुनसिंहश्च पर्यावरणसङ्गतवास्तुकलां टिकाऊजीवनशैलीं च सम्बद्ध्य स्वानुभवान् अवोचताम्। सम्मेलनोपवनस्थले सज्जिते “कुमाऊं बाज़ार” इत्यस्मिन् स्थानिकशिल्पवस्त्रव्यञ्जनादीनां प्रदर्शने आगन्तुकानाम् आकर्षणं जातम्। “पियोली”, “पाला”, “म्यार”, “बैनी”, “पिकल सिकल”, “रस्टीक स्लाइस् कॅफे” इत्यादीनां स्थानिकब्राण्डानां प्रस्तुतीः अपि लोकानाम् ध्यानं आकर्षयन्।
अग्रे पोषणविशेषज्ञा रुजुतादिवेकरा “भारतीयरसोय्याः आहारज्ञानम्” इत्यस्मिन् विषये संवादं कृतवती, समापनं तु सूफीसंगीतप्रस्तुत्या “रेहमत्-ए-नुसरत्” इत्यनेन सह जातम्।
आयोजिका जाह्नवीप्रसादनाम्नी अवदत् यत् दशकपूर्वम् षट् वक्तृभिः पञ्चाशत् श्रोत्रुभिश्च आरब्धम् एतत् आयोजनम् अद्य हिमालयसंस्कृतेः सृजनशीलतायाश्च जीवद्भावेन उत्सवः अभवत्, यः पर्वतं समुदायं प्रकृतिं च एकेन सूत्रेण बध्नाति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता