Enter your Email Address to subscribe to our newsletters


फिरोजाबादः, 2 नवंबरमासः (हि.स.)। सुहागनगरी-फिरोजाबादे रविवासरे शहनायाः निनादेन कुरानस्य आयताभिः सह ३५१ युगलानां सामूहिकविवाहः विकासभवनस्य पश्चाद्भागे उद्यानविभागस्य प्राङ्गणे सम्पन्नः अभवत्। पर्यटनमन्त्रीसहित सर्वेऽतिथयः नवदम्पत्योः आशीर्वादं दत्तवन्तः।
अस्मिन् अवसरे पर्यटनमन्त्री जयवीरसिंहः उक्तवान् यत् सरकारा समदृष्टिं स्वीकरोति, यस्य परिणामरूपेण सर्ववर्गीयदारिद्र्यग्रस्तकन्यानां विवाहकार्यं सफलतया सम्पन्नं जातम्। एतेन दरिद्रपरिवाराः कन्याविवाहचिन्तातः मुक्ताः अभवन्। सः अवदत् यत् प्रदेशसरकारा “सबकासाथ सबकाविकास” इति मूलभावेन प्रवर्तते, अस्य उदाहरणं अत्र द्रष्टुं शक्यते, यत्र हिन्दूदारिद्र्यकन्याभिः सह ८० मुसलमानदारिद्र्यकन्यानां विवाहः पूर्णरीत्या रीतिरिवाजेन सह सम्पादितः अस्ति। सर्वाधिकं विशेषं तदेव यत् अस्मिन् वैवाहिकसमारोहे किञ्चिदपि कपटं न स्यात् इति सुनिश्चित्य वरवध्वोः उपस्थिति-बायोमैट्रिक् प्रमाणीकरणं कृतम्।
अस्मिन् अवसरे पर्यटनमन्त्रिणा नानायोजनानां लोकार्पणं शुभारम्भश्च कृतौ। तत्र माध्यमिकविद्यालयेषु ४७.४६ लक्षरूप्यकाणां व्ययेण ४ बहुउद्देश्यगृहानि द्वौ च अतिरिक्तकक्षौ निर्मितौ, महात्मा-गान्धी-राष्ट्रीय-रोजगार-गारण्टी-योजनान्तर्गतं ८५७३.३८ लक्षरूप्यकाणां व्ययेण ग्रामीणसंवहनमार्गाः, क्रीडाक्षेत्राणि, उद्यानानि च निर्माणाय आरब्धानि। एवमेव राजकीय-इण्टर-कालेज-नसीरपुरे ६५.३२ लक्षरूप्यकाणां व्ययेण अतिरिक्तकक्षनिर्माणकार्यस्य उद्घाटनम् अपि कृतम्। तेन नानायोजनाभ्यः लाभान्वितान् लाभार्थिनः प्रमाणपत्रैः सम्मानितान् कृतवान्।
अस्मिन् कार्यक्रमे जिलाधिकारी रमेशरञ्जनः, महापौरकाामिनी राठौरः, टूण्डलायाः विधायकः प्रेमपालधनगरः, भाजपाजिलाध्यक्षः उदयप्रतापसिंहः, मुख्यविकासाधिकारी शत्रोहनवैश्यः, अपरजिलाधिकारी विशुराजः, अपरजिलाधिकारी नमामिगङ्गे-मोहनलालगुप्तः, सिटिमजिस्ट्रेट्, परियोजनानिदेशकः सुभाषचन्द्रत्रिपाठी च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani