Enter your Email Address to subscribe to our newsletters

अजमेरम्, 02 नवंबरमासः (हि.स.)।देवप्रबोधिनीएकादश्याः अवसरस्य निमित्तं रविवासरे पवित्रे पुष्करसरोवरे पंचतीर्थस्नानस्य आरम्भेन सह विश्वविख्यातः पुष्करमहोत्सवः शुभारम्भं प्राप्तः। ब्रह्ममुहूर्ते आरब्धे अस्मिन् स्नाने विशालसंख्यायां भक्तजनाः श्रद्धया निमज्जनं कर्तुं समायाताः। अयं धार्मिकः उत्सवः पञ्चमे नवम्बरदिनाङ्के कार्तिकपूर्णिमायाः पावनसंध्यायां भवितव्येन महास्नानेन सह समाप्तिं गमिष्यति।
धार्मिकप्रत्ययेषु निर्दिष्टं यत् कार्तिकशुक्लैकादश्यां आरभ्य पूर्णिमां पर्यन्तं जगत्पिता भगवान् ब्रह्मा पुष्करसरोवरे सृष्टियज्ञानं सम्पन्नवान्। अस्मिन् कालवधौ स्वयमेव ब्रह्मा सह सर्वैः देवीदेवताभिः सरोवरे निवसति, अत्र स्नानं कुर्वतः अक्षयपुण्यलाभः भवति। अत एव एषः स्नानः पंचतीर्थस्नानम् अथवा भीष्मपंचस्नानम् इति प्रसिद्धः।
द्विपञ्चाशद्घाटेषु श्रद्धालूनां भीडः निरन्तरं वर्धते। अस्मिन्वर्षे सम्यग्वृष्टेः फलरूपेण सरोवरजलस्य स्तरः सामान्यादधिकः, तेन प्रशासनं सुरक्षायाः दृढविधानं कृतवद्भवति। एस् डी आर् एफ् तथा सिविल् डिफेन्स् इत्येतयोः दलानि घाटेषु नियुक्तानि, पुलिसबलं च सर्वदा पर्यवेक्षणं करोति। स्त्रीणां गोपनीयतारक्षणाय घाटेषु छायाचित्रग्रहणं सर्वथा निषिद्धं कृतम्।
अत्रैव पुष्करगुरुद्वारात् रविवासरप्रातः आध्यात्मिकयात्रायाः अपि शुभारम्भः जातः। मन्त्री सुरेशसिंहरावतस्य साधुसन्तानां च सन्निधौ यात्रा नवरङ्गजीमन्दिरात् आरभ्य मेलास्थेडियमपर्यन्तं प्राप्ता। मार्गे मार्गे श्रद्धालुभिः पुष्पवृष्ट्या ढोलनगारेण च यात्रिकाणां स्वागतं कृतम्। अस्मिन् भव्ययात्रायां शिक्षणसंस्थानानि सामाजिकसंघटनानि धार्मिकसंस्थाश्च सज्जितरथैः झाङ्किभिः च स्वस्य आस्थां प्रदर्शितवत्यः। लोककलाकारैः पारम्परिकनृत्यैः भजनकीर्तनैश्च वातावरणं भक्तिमयं कृतम्।
मन्त्री सुरेशसिंहरावतः अस्मिन् अवसरे उक्तवान् यत् यथावत् प्रतिवर्षं यथा तथैव अस्मिन्समये अपि पुष्करमहोत्सवः भव्यतायुक्तः आरब्धः। राज्यसरकारा मेलेसंबन्धिनां सर्वेषां व्यवस्थापनानां मध्ये किञ्चिदपि न्यूनता न कृतवती। मुख्यमन्त्री भजनलालशर्मणः मार्गदर्शनस्य अधीनम् सर्वाणि उपयोजनानि सुदृढीकृतानि।
---------------
हिन्दुस्थान समाचार