भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु उत्तराखण्डराज्यस्य त्रिदिनात्मकप्रवासे देहरादूननगरं प्राप्तवती। तत्र राज्यपालेन मुख्यमन्त्रिणा च सहर्षं स्वागतं कृतम्
देहरादूनम्, 02 नवम्बरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मु रविवासरे त्रिदिनात्मकप्रवासाय उत्तराखण्डराज्यं देहरादूननगरं प्रति आगच्छत्। तत्र राज्यपालः लेफ्टिनण्ट् जनरल् गुरमीत् सिंहः (सेवानिवृत्तः) मुख्यमन्त्री पुष्करसिंहधामी च जौलीग्राण्ट्
राज्यपाल और मुख्यमंत्री राष्ट्रपति का स्वागत करते ।


देहरादूनम्, 02 नवम्बरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मु रविवासरे त्रिदिनात्मकप्रवासाय उत्तराखण्डराज्यं देहरादूननगरं प्रति आगच्छत्। तत्र राज्यपालः लेफ्टिनण्ट् जनरल् गुरमीत् सिंहः (सेवानिवृत्तः) मुख्यमन्त्री पुष्करसिंहधामी च जौलीग्राण्ट् विमानपत्तने राष्ट्रपति महोदयायाः देवभूमि उत्तराखण्डप्रवेशे स्वागतं कृतवन्तौ। अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तं यत् — “नैसर्गिकसौन्दर्येण, आध्यात्मिकऊर्जया, समृद्धसंस्कृत्या, शौर्यपराक्रमाभ्यां, गौरवशालीपरम्पराभिश्च ओतप्रोता या देवभूमिः उत्तराखण्डराज्यं, तस्य स्थापना-रजतोत्सवस्य ऐतिहासिकसन्दर्भे राष्ट्रपति महोदयायाः आगमनं समस्त-उत्तराखण्डवासिनां गर्वगौरवयोः क्षणं भवति।”

जौलीग्राण्ट् विमानपत्तने सभापतिः ऋतु खण्डूडी भूषण, मन्त्रीगणः, विधायकाः, अन्ये जनप्रतिनिधयश्च राष्ट्रपति महोदयायाः स्वागतं कृतवन्तः।अद्य राष्ट्रपतिः हरिद्वारे पतञ्जलिविश्वविद्यालयस्य द्वितीयदीक्षान्तसमारोहे सहभागी भवति। ततः अनन्तरं दूननगरं आगम्य “राष्ट्रपतिनिकेतन” इत्यत्र विविधकार्यक्रमेषु सम्मिलिता रात्रिविश्रामं करिष्यति।

सोमवासरे राज्यस्थापनायाः पञ्चविंशत्यब्दिपूर्त्युपलक्ष्ये विशेषसत्रे सम्मिलितुं देहरादूनविधानसभां गमिष्यति। सा एकादशात् द्वादशपर्यन्तं सदसि उपस्थिताभविष्यति, यत्र विशेषसत्रं सम्बोधयिष्यति च।

तृतीयदिनाङ्के नवम्बरमासस्य त्रितीये दिने नैनीतालनगरस्थे राजभवने स्थापनेः शतपञ्चविंशत्यब्दिपूर्त्युपलक्ष्ये आयोजिते समारोह इत्यस्मिन् सा भागं ग्रहीष्यति। चतुर्थे दिने सा कैंचीधाम्नि स्थितं “नीमकरोलीबाबा-आश्रमं” प्रति गमिष्यति। नूतनदिल्लीं प्रति प्रत्यागमनात् पूर्वं राष्ट्रपति नैनीतालस्थे कुमायूँविश्वविद्यालयस्य विंशतितमदीक्षान्तसमारोहेऽपि सहभागिनी भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता