Enter your Email Address to subscribe to our newsletters

उत्तरकाशी, 2 नवंबरमासः (हि.स.) ।उत्तराखण्डराज्यस्य स्थापना-दिवसस्य नवमे नवम्बरमासे पञ्चविंशत्यधिकवर्षपूर्त्यां निमित्तीकृत्य विविधाः उत्सवाः आरब्धाः सन्ति। शनिवासरे श्रीमती मञ्जीरा देवी विश्वविद्यालये, हिताणू थनारी, डुण्डा, उत्तरकाशीस्थाने, उत्तराखण्ड-स्थापना-दिवसस्य रजतजयंती-समारोहः भव्यरूपेण आयोजितः।
अस्मिन् अवसरे विश्वविद्यालयस्य सर्वे संकायाः — नर्सिङ् तथा पैरामेडिकल्, शिक्षकशिक्षा (बी.एड्), फार्मेसी, आयुर्वेद, अभियांत्रिकी विभागेषु अध्ययनरताः विद्यार्थिनः उत्साहेन सहभागिनोऽभवन्।
कार्यक्रमस्य शुभारम्भः विश्वविद्यालयस्य कुलपतिना प्रेरकभाषणेन अभवत्। तेन समारोहं संबोधित्य उक्तं — “उत्तराखण्डस्य पर्वतीयप्रदेशेषु उपलभ्यमानानां श्रीधान्यानां (मिलेट्स्) अधिकं उपयोगं कुर्वन्तु, अन्यानपि तत्र प्रेरयन्तु। आरोग्यकरं भोजनं गृह्णीयात्, पाश्चात्यसभ्यतायाः प्रभावं विना स्वराज्यस्य राष्ट्रस्य च संस्कृतिं रक्षन्तु। पलायनं निरोद्धव्यम्, स्व-रोजगारः प्रोत्साहनीयः। ‘लोकलस्य कृते वोकल्’ इति भावेन कार्यं कर्तव्यम्।”
तेन एव उक्तं — “उत्तराखण्डस्य विलुप्यमानं सांस्कृतिकं वैभवं रक्षितुं युवानां कर्तव्यम् अस्ति। अस्मिन् कार्ये सर्वे एकत्र भवन्तु, यत् चतुर्धामस्य सांस्कृतिकपरम्परा सुरक्षितां स्थापयितुं शक्येत।”
अस्मिन् प्रसङ्गे कुलपतिः रजतजयंती-समारोहस्य सफलं आयोजनं प्रति उत्तराखण्डसरकारं, सचिवं डा॰ रंजीत कुमार सिन्हा, तथा उच्चशिक्षामन्त्रिणं डा॰ धनसिंह रावतं सहितं सर्वेषां प्रयत्नान् प्रशंसत्।
अस्मिन् अवसरि कुलसचिवः डा॰ अमितः, परीक्षानियन्त्रकः नवीनः नौटियालः, ओएस्डी मधुवालः, डा॰ विवेकः भट्टः, डा॰ कपिलमोहन उपाध्यायः इत्येते स्वेषु शुभकामनाभाषणेषु विद्यार्थिनः प्रेरितवन्तः।
मञ्चसंचालनं साहिलवर्मणा तथा अभिषेकउनीयालेन कृतम्।
हिन्दुस्थान समाचार