प्रधानमंत्रिणः प्रस्तावितकार्यक्रमस्य दृष्ट्या वाराणसी रेलवे-स्थानके अधिकारः निरीक्षणम् अकुर्वन्।
वाराणसी, 02 नवम्बरमासः (हि. स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः वाराणस्यां सप्तमिनवम्बरतिथौ प्रस्ताविते वन्देभारतएक्सप्रेस् उद्घाटनकार्यक्रमे संदर्भे रविवासरे बनारसरेलवे-स्थानके डीआरएम् आशीषजैन, जिलाधिकारी सत्येन्द्रकुमारः, आरक्षक-आयुक्तः मोहिताग्र
प्रधानमंत्री मोदी फाइल फोटो


वाराणसी, 02 नवम्बरमासः (हि. स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः वाराणस्यां सप्तमिनवम्बरतिथौ प्रस्ताविते वन्देभारतएक्सप्रेस् उद्घाटनकार्यक्रमे संदर्भे रविवासरे बनारसरेलवे-स्थानके डीआरएम् आशीषजैन, जिलाधिकारी सत्येन्द्रकुमारः, आरक्षक-आयुक्तः मोहिताग्रवाल, उपमहानिरीक्षकः शिवहरिमीणा, उपआरक्षक-आयुक्तः (वरुणा) प्रमोदकुमार, उपआरक्षक-आयुक्तः (यातायात) च अन्ये च अधिकारीणः मार्गं च प्रस्तावितकार्यस्थानं च निरीक्षितवन्तः।

डीआरएम् आशीषजैनः तथा जिलाधिकारी सत्येन्द्रकुमार इत्युभौ कार्यक्रमस्थानस्य तथा एकात् अष्टपर्यन्तं प्रेक्षणमञ्चानां निरीक्षणम् अकुरुताम्।

बरेका-आतिथिगृहस्य निरीक्षणकाले जिलाधिकारेण कतिपयेषु स्थानेषु दोषानां परिष्करणाय निर्देशाः दत्ताः।

हिन्दुस्थान समाचार / Dheeraj Maithani