बिहारनिर्वाचने हिंसा न सहिष्यते, अधुना देशस्य समग्रस्य 51 कोटि मतदातॄणां सूची शुद्धीकरिष्यते- मुख्यनिर्वाचनायुक्तः
आईआईटी कानपुरस्य फाउंडेशन डे अत्यस्मिन् अवसरे सम्मेलिष्यते मुख्यनिर्वाचनायुक्तःमुख्य चुनाव आयुक्तो माथुर वैश्य समाजस्य कार्यक्रमे अपि सम्मिलितः कानपुरम्, 2 नवंबरमासः (हि.स.)।आईआईटी कानपुरस्य संस्थापनादिवसे रविवासरे आगतः मुख्यनिर्वाचनायुक्तः ज्ञा
आर्यनगर स्थित कार्यक्रम में शिरकत करने पहुंचे मुख्य चुनाव आयुक्त ज्ञानेश कुमार हाथ जोड़कर अभिवादन स्वीकार करते हुए छायाचित्र


आईआईटी कानपुरस्य फाउंडेशन डे अत्यस्मिन् अवसरे सम्मेलिष्यते मुख्यनिर्वाचनायुक्तःमुख्य चुनाव आयुक्तो माथुर वैश्य समाजस्य कार्यक्रमे अपि सम्मिलितः

कानपुरम्, 2 नवंबरमासः (हि.स.)।आईआईटी कानपुरस्य संस्थापनादिवसे रविवासरे आगतः मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः अवदत् यत् “बिहारे विधानसभानिर्वाचने हिंसां कुर्वन्तः कठोरतया निगृह्यन्ते। न कश्चन व्यक्तिः न च कश्चन दलः हिंसां वा अराजकत्वं वा कर्तुं दास्यते। सुरक्षा व्यवस्था अधिकं सुदृढं क्रियते, मतदातारः निर्भयेन मतप्रदानं कुर्वन्तु। अधुना देशव्यापी ‘एस् आई आर्’ (मतदाता-सूचिशुद्धिकरणम्) कार्यक्रमः प्रवर्तिष्यते।”

बिहारनिर्वाचने हिंसासम्बद्धेषु पत्रकारप्रश्नेषु प्रत्युत्तरं दत्त्वा मुख्यनिर्वाचनायुक्तेन उक्तम् — “बिहारे विधानसभानिर्वाचनस्य विषये आयोगेन कठोरः दृष्टिकोणः स्वीकृतः अस्ति। निर्वाचनायोगस्य कृते न कश्चन पक्षः, न विपक्षः — सर्वे समानाः एव। हिंसासम्बद्धा या काचित् क्रिया, सा असह्या भविष्यति। प्रथमचरणस्य मतदानं नवम्बरमासस्य षष्ठे दिने, द्वितीयचरणस्य एकादशे दिने, मतगणना च चतुर्दशे दिने भविष्यति।”

तेन उक्तम् — “निर्वाचनायोगेन २४३ प्रत्यावर्तनाधिकृताः, निरीक्षकाः, जिलाधिकारीणः, पुलिसाध्यक्षा च सम्यक् सज्जीकृताः सन्ति। बिहारे समाप्ते, अधुना देशव्यापी ५१ कोट्यधिकानां मतदातॄणां सूचीशुद्धिकरणं (एस् आई आर्) करिष्यते। अस्य कार्यस्य सिद्धिः वैश्विकस्तरे आदर्शरूपेण स्थास्यति।”

मुख्यनिर्वाचनायुक्तः अवदत् — “अहं बिहारनिर्वाचनव्यस्ततया कानपुरं गन्तुं योजना त्यक्तवान् आसं, किन्तु मातुः इच्छां मान्य कृत्वा अत्र आगतः अस्मि। आईआईटीकानपुरस्थाः अपि मम आगमनं प्रतीत्य त्यक्तवन्तः आसन्, किन्तु मातुः आज्ञां पूरयितुं अहं अत्र आगतः अस्मि।”

तेन स्मृतं यद् “आईआईटी कानपुरे व्यतीतानि चत्वारि वर्षाणि मम जीवनस्य अत्युत्साहपूर्णानि आसन्।”

आईआईटी कानपुरे संस्थापनोत्सवात् पूर्वं सः आर्यनगरस्थिते टीएसएच स्पोर्ट्स हब इत्यत्र आयोजिते माथुरवैश्यसमाजस्य कार्यक्रमे अपि सम्मिलितः। तत्र तेन आईआईटीस्थविद्यार्थिजीवनं, कानपुरसंबन्धः, निर्वाचनायोगे अनुभूतयः च जनैः सह कृताः।

हिन्दुस्थान समाचार