Enter your Email Address to subscribe to our newsletters

तिरुवनंतपुरम, 02 नवम्बरमासः (हि.स.)।देशे अनुसंधानं नवोन्मेषं च प्रोत्साहयितुं नीत्यायोगेन ‘ईज् ऑफ् डूइङ् रिसर्च् एण्ड् डेवलपमेण्ट्’ इत्यस्य विषयेषु अष्टमी क्षेत्रीयपरामर्शसभा तिरुवनन्तपुरे आयोजिता। अस्मिन् सम्मिलने वैज्ञानिकमन्त्रालयानां, विश्वविद्यालयानां, अनुसंधानसंस्थानानां च प्रतिनिधयः सम्मिल्य विचारमकुर्वन् यत् भारतदेशे अनुसंधानकार्याणि कथं सुलभानि, प्रभाववन्ति, उपयोगिनि च कर्तुं शक्यन्ते।
एषा सभा ३० तथा ३१ अक्टूबर् इत्येतयोः दिनेभ्यां नेशनल् सेन्टर् फॉर् अर्थ् साइन्स् स्टडीस् (एन् सी ई स् स्) इत्यत्र अभवत्। कार्यक्रमस्य आरम्भः एन् सी ई स् स् इत्यस्य निर्देशकस्य प्रोफेसर् एन् वी चेलापति राव इत्यस्य स्वागतभाषणेन अभवत्। तेन उक्तं यत् देशस्य क्षेत्रीयाः अनुसंधानसंस्थानानि नवोन्मेषाधारितविकासे अत्यन्तं प्रमुखं स्थानं धारयन्ति।
नीत्यायोगस्य प्रोफेसर् विवेककुमारसिंह नाम प्रतिनिधिः आर् ओ पी ई (ROPE) इत्याख्यं फ्रेम्वर्क् सम्यग् अवोचत्, तस्य च उद्देश्यं प्रकाशयन् उक्तवान् यत् एतेन संशोधकेभ्यः उत्पन्नानि विघ्नानि निवार्य, अनुकूलं वातावरणं निर्मातुं शक्यते।
पृथ्वीविज्ञानमन्त्रालयस्य सचिवः डॉ एम् रविचन्द्रन् इत्यनेन उपदिष्टं यत् निवृत्तवैज्ञानिकानां अनुभवस्य उपयोगः कार्येषु क्रियेत, विश्वविद्यालय-उद्योग-सरकारयोः सहयोगः सुदृढः क्रियेत, अनुसंधानं च समाजेन सह सम्बध्येत, यतः तस्य फलानि जनानाम् उपकाराय सुलभानि स्युः।
नीत्यायोगस्य सदस्यः डॉ वी के सारस्वत् अवदत् यत् आर् एण्ड् डी कार्याय संस्थानानां आन्तरिकव्यवस्था तथा बाह्यनीतिगतसङ्गठनं उभयं सुधृत्य करणीयम्।
कार्यक्रमे केरलराज्यस्य राज्यपालः राजेन्द्रविश्वनाथआर्लेकर इत्युक्तवान् यत् “ईज् ऑफ् डूइङ् आर् एण्ड् डी” इत्यस्य प्रत्यक्षं सम्बन्धः नागरिकाणां ‘ईज् ऑफ् लिविङ्’ इत्यनेन अस्ति, विज्ञानं च जनकेंद्रितविकासेन सह संयोजयितुं कालनुरूपं आवश्यकम्।
द्विदिवसीयायाः सभायाः समापनं विभिन्नसंस्थानानां प्रयोगशालानां सरकारीप्रतिनिधीनां च मध्ये संवादेन अभवत्, यस्मिन् सर्वे भारतस्य सहयोगी प्रभावी च अनुसंधानव्यवस्थां निर्मातुं संकल्पं कृतवन्तः।
---------------
हिन्दुस्थान समाचार