डिजिटल युगे पुस्तकालय ज्ञानस्य विश्वसनीयः मार्गदर्शकः - उपराष्ट्रपतिः
नवदिल्ली, 02 नवंबरमासः (हि.स.)। उपराष्ट्रपतिः श्रीमान् सीपी राधाकृष्णन इत्याख्यः उक्तवान् यत् ग्रन्थालयाः केवलं पुस्तकोपधानानि न सन्ति, अपि तु ते ज्ञानचिन्तनसशक्तीकरणानां मन्दिराणि भवन्ति। सः शनिवासरे केरलराज्ये संगठितग्रन्थालयचालनस्य अष्टाशीतितमव
सीपी राधाकृष्णन


नवदिल्ली, 02 नवंबरमासः (हि.स.)। उपराष्ट्रपतिः श्रीमान् सीपी राधाकृष्णन इत्याख्यः उक्तवान् यत् ग्रन्थालयाः केवलं पुस्तकोपधानानि न सन्ति, अपि तु ते ज्ञानचिन्तनसशक्तीकरणानां मन्दिराणि भवन्ति।

सः शनिवासरे केरलराज्ये संगठितग्रन्थालयचालनस्य अष्टाशीतितमवर्षपूर्तिसम्बन्धे त्रिवेन्द्रमपुर्यां कनकक्कुन्नूप्रासादे पी एन पनिक्कर फाउण्डेशननाम्ना संस्थया आयोज्यमाने अन्ताराष्ट्रियसम्मेलने “Libraries Empowering Communities – Global Perspectives” इत्यस्मिन् वर्चुअली संबोधनं कृतवान्।

तेन उक्तं यत् अस्याः संस्थायाः प्रयत्नैः पठनीयसंस्कृतिः, डिजिटलसाक्षरता च, ज्ञानमार्गेण समाजस्य सशक्तीकरणं च महत्त्वपूर्णं कृतम्। अस्य संस्थायाः नारा “वायिचु वलरुका” इति (अर्थात् पठित्वा वर्धस्व) अद्यापि समाजं ज्ञानसमावेशनयोः दिशि प्रेरयति।

राधाकृष्णनमहाशयः अवदत् यत् भारतदेशः प्राचीनकालात् एव ज्ञानशिक्षयोः भूमिः आसीत्। आदि शंकराचार्यः सर्वत्र भ्रमन् समाजे आध्यात्मिकचेतनाम् ऐक्यं च प्रबोधितवान्। अस्य देशस्य ऋषयः मुनयः च स्वया करुणया विवेकेन दूरदर्शितया च एतां सभ्यतां समृद्धां कृतवन्तः।

सः उक्तवान् यत् अद्यतनस्य डिजिटलयुगस्य सन्दर्भे, यत्र सूचनानां बहुलता विद्यते, तत्रापि ग्रन्थालयाः सत्यविश्वसनीयज्ञानकेंद्राणि भवन्ति। यद्यपि तन्त्रज्ञानं त्वरिततया सूचनां ददाति, तथापि ग्रन्थालयाः गाम्भीर्यं चिन्तनं सार्थकसंवादं च प्रोत्साहयन्ति।

द्विदिवसीयमिदं अन्ताराष्ट्रियसम्मेलनं नवम्बरमासस्य द्वितीये तृतीये दिवसे आयोजितम्। अस्मिन् देशविदेशयोः विशेषज्ञाः, नीतिनिर्मातारः, शिक्षाविदः, डिजिटलनवोन्मेषकर्तारश्च सहभागी अभवन्। सम्मेलनस्य विषयाः आसन् — ग्रन्थालयानां परिवर्तमाना भूमिका, डिजिटलप्रवेशः, सामुदायिकी सहभागिता च।

---------------

हिन्दुस्थान समाचार