देशे 26 ई-कॉमर्ससंस्थाः स्वयमेव ‘डार्क पैटर्न’तः मोक्तुं घोषणा कृता
नवदिल्‍ली, 20 नवंबरमासः (हि.स)। डिजिटलीयविक्रयविपणौ उपभोक्तॄणां हितरक्षणस्य दिशायां देशस्य षड्विंशतिः प्रमुखाः ई कॉमर्स कम्पनीयः स्वयमेव डार्क पॅटर्न इत्यस्य रहिताः इति घोषणा कृतवन्तः। एतेषु षड्विंशतौ ई कॉमर्स मंचेषु जेप्टो जोमैटो स्विगी जियोमार्
डार्क पैटर्न’ के लोगो का प्रतीकात्‍मक चित्र


नवदिल्‍ली, 20 नवंबरमासः (हि.स)।

डिजिटलीयविक्रयविपणौ उपभोक्तॄणां हितरक्षणस्य दिशायां देशस्य षड्विंशतिः प्रमुखाः ई कॉमर्स कम्पनीयः स्वयमेव डार्क पॅटर्न इत्यस्य रहिताः इति घोषणा कृतवन्तः। एतेषु षड्विंशतौ ई कॉमर्स मंचेषु जेप्टो जोमैटो स्विगी जियोमार्ट बिगबास्केट इत्यादयः अन्तर्भवन्ति। एते सर्वे एव अवदन् यत् तेषां मंचाः डार्क पॅटर्न इत्यस्य मुक्ताः सन्ति तथा च न कस्यचित् प्रकारस्य उपभोकृछलनकारकस्य युजर इन्टरफेस डिजाइन इत्यस्य उपयोगं कुर्वन्ति।

उपभोक्तृकार्यविभागेन खाद्यसार्वजनिकवितरणमन्त्रालयेन च स्वेच्छया उपस्थापितानि स्व घोषणापत्राणि षड्विंशतिः प्रमुख ई कॉमर्स कम्पनीभ्यः प्राप्तानि ये डार्क पॅटर्न निरोधन विनियमन द्विसहस्रत्रिंशदधिकद्वे इत्यस्य निर्देशानां पालनम् इति प्रमाणयन्ति। मंत्रालयस्य सूचनां अनुसारं एतेषु कम्पनीषु डार्क पॅटर्न इति कस्यापि अवशेषस्य चिन्हनं मूल्यांकनं निवारणं च कर्तुं स्वयमेव आन्तरिकरूपेण तथा अन्यैः अपि पक्षैः परीक्षाः अनेके कृताः।

एतेषु कम्पनीनामसु फार्म इजी जेप्टो मार्केटप्लेस फ्लिपकार्ट इण्टरनेट् मिंत्रा डिजाइन्स वॉलमार्ट इण्डिया मेकमायट्रिप इंडिया बिगबास्केट इन्नोवेटिव रिटेल कौंसेप्ट्स जियोमार्ट रिलायंस रिटेल जोमैटो स्विगी ब्लिंकिट पेज् इण्डस्ट्रीज विलियम पेन क्लियरट्रिप रिलायंस ज्वेल्स रिलायंस डिजिटल नेटमेड्स टाटा वन एमजी मीशो इक्सिगो मिलबास्केट हैमलेज अजिओ टीरा ब्यूटी रिलायंस रिटेल लिमिटेड ड्यूरोफ्लेक्स प्राइवेट लिमिटेड क्यूराडेन इण्डिया इति नामानि सन्ति।

केंद्रिय उपभोक्तृसंरक्षण प्राधिकरणेन कथितम् यत् एते घोषणापत्राणि अन्याः कम्पनीयः अपि एतादृशं स्वनियमनम् अंगीकरोतु इति प्रेरयिष्यन्ति। सर्वकार उपभोक्तॄन् प्रोत्साहितुं...

---------------

हिन्दुस्थान समाचार