(अद्यतनीकृतं)छत्तीसगढ़स्य अंबिकापुरे राष्ट्रपति मुर्मुः अकरोत् जनजातीय गौरव दिवस समारोहस्य शुभारंभम्
अंबिकापुरम्, 20 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य सरगुजा जनपदे अम्बिकापुरे गुरुवासरे जनजातीय गौरव दिवसस्य मुख्यसमारोहस्य राष्ट्रपति द्रौपदी मुर्मु इत्यस्याः दीपप्रज्वलनपूर्वकं शुभारम्भं कृतवती। अस्मिन् समारोहेषु जनसमूहो महतः संजातः दृश्यते स्म तथा ज
जनजातीय गौरव दिवस


जनजातीय गौरव दिवस


अंबिकापुरम्, 20 नवंबरमासः (हि.स.)।

छत्तीसगढ़स्य सरगुजा जनपदे अम्बिकापुरे गुरुवासरे जनजातीय गौरव दिवसस्य मुख्यसमारोहस्य राष्ट्रपति द्रौपदी मुर्मु इत्यस्याः दीपप्रज्वलनपूर्वकं शुभारम्भं कृतवती। अस्मिन् समारोहेषु जनसमूहो महतः संजातः दृश्यते स्म तथा जनजातीनां मध्ये उत्साहः अतिशयितः आसीत।

राष्ट्रपतिः मुर्मुः कार्यक्रमस्थले जनजातीय समाजस्य जनैः सह आत्मीयं मिलनं कृत्वा छत्तीसगढ़ी आदिवासी संस्कृतेः पारम्परिकान्नानां स्थापनानि निरीक्षितवती। तदा स्थानीयसंस्कृतेः परम्पराणां च सान्निध्येन अवलोकनं प्रशंसनं च कृतवती। ततः पूर्वं तस्याः हेलीकॉप्टरम् अतिदृढसुरक्षाव्यवस्थायाः मध्ये गान्धी स्टेडियम इत्यत्र अवतरितम्, ततः सा प्रत्यक्षं पीजी कॉलेज मैदानम् अगच्छत् यत्र मुख्यकार्यक्रमस्य आयोजनं जातम्।

कार्यक्रमस्य आरम्भः राष्ट्रगानेन अभवत। अनन्तरं राष्ट्रपति द्रौपदी मुर्मु भगवान् बिरसा मुंडा इत्यस्य प्रतिमायाः पुरतः दीपप्रज्वलनं कृत्वा मुख्यसमारोहस्य शुभारम्भं कृतवती। कार्यक्रमे पारम्परिकनृत्यानि सांस्कृतिकझाङ्क्यः आदिवासीकलानां विशेषप्रदर्शनं च प्रमुखआकर्षणरूपेण बभूव।

कार्यक्रमे छत्तीसगढ़राज्यस्य राज्यपालः रमेन डेका, मुख्यमन्त्री विष्णु देव साय, वित्तमन्त्री ओ पी चौधरी, कृषिमन्त्री रामविचार नेमाम इत्यादयः वरिष्ठमन्त्रिणः उपस्थिताः आसन्। सहस्रसंख्यकाः आदिवासीसमाजस्य जनाः उत्साहपूर्वकं कार्यक्रमे सहभागिनोऽभवन्।

---------------

हिन्दुस्थान समाचार