Enter your Email Address to subscribe to our newsletters

भोपालम्, 20 नवंबरमासः (हि.स.)। बीजेपी प्रदेश-अध्यक्षः हेमन्तः खण्डेलवालः अद्य गुरुवासरे सेवनी–बालाघाट–छिन्दवाड़ा-प्रवासे भविष्यति।
निश्चित-कार्यक्रम-अनुसारं भाजपाः प्रदेश-अध्यक्षः खण्डेलवालः सेवनी-नगरे प्रातः 10 वादनपर्यन्तम् अपेक्षित-श्रेणी-सभां च प्रातः 11.30 वादने कोर्-ग्रुप्-समित्याः सभां संबोधयिष्यति। मध्यान्हे 3 वादने भाजपाः जनपद-कार्यालये बालाघाटे एस्एयर्-समितेः सभां संबोध्य कार्यकर्तृभिः सह साकं भेटां करिष्यति। सायं 5 वादने श्यामबिहारीवर्मा सर्वकारी-उत्कृष्ट-विद्यालयपरिसरे स्वदेशीजागरणमञ्चेन आयोजिते ‘स्वदेशी-मेलायाम्’ मुख्य-अतिथिरूपेण सहभागी भविष्यति।
प्रदेश-अध्यक्षः खण्डेलवालः सायं 6.10 वादने सर्किट्-हाउस्-रोड्, वार्ड् संख्या 22, मार्डीकर-गल्यां आगत्य सांसद् डॉ॰ भारती-पारधी इत्यनेन सह मेलनं करिष्यति, ततः सायं 6.45 वादने जनपद-अध्यक्षस्य रामकिशोर-कांवरे इत्यस्य निवासस्थाने गत्वा तस्य पितुः निधनम् प्रति शोकसंवेदनां प्रकटयिष्यति। सायं 7.15 वादने मोती-तालाब्-चोक्-रोड्, विवेक-ज्योति-स्कूले महिला-मोर्चस्य पूर्व-प्रदेश-अध्यक्षया लता-एल्कर् इत्यनेन सह मेलनं कृत्वा सायं 7.40 वादने सिविल्-लाइन्, ओवर्-ब्रिज् समीपे, सेवनी-रोड् बालाघाटे प्रदेश-शासनस्य पूर्व-मन्त्रिणा गौरीशङ्कर-बिसेन इत्यनेन सह मेलनं करिष्यति। खण्डेलवालः रात्रौ 11 वादने छिन्दवाड़ा-नगरं प्राप्य रात्रिविश्रामं करिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता