Enter your Email Address to subscribe to our newsletters

उरई, 20 नवंबरमासः (हि.स.)। अखिलभारतीय-विद्यार्थी-परिषद् उरई-इत्यस्य कार्यकर्तृभिः गुरुवासरे रानी-लक्ष्मीबायाः १९७-मा जयंती आचिता। अभाविप-उरई-मण्डलेन दयानन्द-वैदिक-कोलेज-महाविद्यालयस्य महाराजा-छत्रसाल-सभागारे शौर्य-पराक्रमेणाङ्ग्लैः सह संग्रामं कृत्वा प्रख्यातायाः झाँसी-रानीलक्ष्मीबायाः जयंती-निमित्तम् “शक्ति-संवाद”-नामकः कार्यक्रमः आयोजितः।
कार्यक्रमस्य शुभारम्भः मुख्यतया नगर-क्षेत्राधिकारी-अर्चना-सिंह, प्रान्त-सह-मन्त्री-चित्रांशु-सिंह, कार्यक्रम-अध्यक्षा प्रो॰ अल्का-रानी-पुरवार तथा डॉ॰ माधुरी-रावत इत्येतेभिः दीपप्रज्वलनपूर्वकं कृतः। कार्यक्रमस्य सञ्चालनं नगर-उपाध्यक्षेना डॉ॰ शीलू-सेंगर इत्यनेन कृतम्। कार्यक्रमे क्षेत्राधिकारी-अर्चना-सिंह उक्तवती यत्— “यदि अद्यतान्याः कन्यकाः सतर्काः भविष्यन्ति, तर्हि अवश्यं भविष्यात् बालिकाः स्वावलम्बिन्यश्च सशक्ताश्च भविष्यन्ति, स्वकर्मणः बलात् चिह्नं स्थापयितुं चार्हन्ति।”। प्रान्तसहमन्त्री-चित्रांशुसिंह अवदत् यत्— छात्राभ्यः सुदृढीकरणाय अखिलभारतीय-विद्यार्थी-परिषद् ‘मिशन-साहसी’ नाम प्रकल्पं सञ्चालितवती, यस्मिन् प्रकल्पे छात्राभ्यः नित्योपयोगिन्या सामग्रीया आत्मरक्षण-प्रशिक्षणं प्रदत्तं भवति। आगामिकाले अत्रापि गतवर्षवत् मिशन-साहसी कार्यक्रमः आयोजितः भविष्यति।
कार्यक्रमस्य अध्यक्षत्वं कुर्वती प्रो॰ अल्का-रानी-पुरवार अवदत्— “अस्माभिः सर्वैः रानी-लक्ष्मीबाय्या उदाहरणं ग्रहीतव्यम् — सा कथं राजनीति-विषये निपुणा तथा युद्धकालेऽङ्ग्लानां मनोबलं नाशयितुं समर्था च आसीत् इति।” अस्मिन् प्रसङ्गे मुख्यतया विभाग-संयोजकः अभयदुबे, विभागप्रमुखः डॉ॰ नमो-नारायण, विभागछात्राप्रमुखा अल्शिफा, नगरमन्त्री अमनपण्डा, तहसील-सह-संयोजकः ओम-ठाकुर, कु० रिद्धितिवारी, जयहिन्दयादव, देववर्मा, डॉ॰ शगुप्ता इत्यादयः कार्यकर्तारः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता