Enter your Email Address to subscribe to our newsletters

देहरादूनम्, २० नवम्बरमासः (हि.स.)। टिहरीजनपदस्य भिलंगना-विकासखण्डे स्थिते बूढ़ाकेदारधाम्नि अस्मिन् वर्षेऽपि गुरुकैलापीरदीपावली-बग्वालोत्सवः महानया आस्थया उत्साहेन च सम्पन्नः। दीपावल्याः एकमासानन्तरं आचर्यमाणा एषा गुरुकैलापीरबग्वाल् इति परम्परा क्षेत्रस्य अद्वितीया सांस्कृतिकधार्मिकपरम्परा वर्तते, या प्रतिवर्षं स्थानिकनिवासिनः दूरदूरात् आगतान् भक्तान् च आकर्षयति।
उत्सवकाले पुंडारायाः विशालसेरे इत्यत्र सहस्रशः जनसमूहः समायातः। परम्परानुसारं भक्तजनाः ‘भैलो’ इति दीपं परिक्रम्य धार्मिकविधिना मार्गशीर्षबग्वाल् आचक्रुः। सम्पूर्णः परिसरः मृदङ्गदुन्दुभिनां, रणशिङ्गानां दैवी-गीतानां च निनदेन गुञ्जमानः जाता। उत्सवस्य भव्यतां वर्धयितुं लोकसंस्कृतेः प्रसिद्धौ कलाकारौ पद्म-गुसाईं रवि-गुसाईं च स्वीयाभिः सांस्कृतिकप्रस्तुतिभिः जनान् मोहितवन्तौ। तयोः लोकगीतैः दृश्यैः पारम्परिकनृत्यैश्च उपस्थिताः भक्ताः दीर्घकालं यावत् आकर्षिताः। तयोः प्रस्तुतीभ्यः प्रेरिताः युवावृद्धाः सर्वेऽपि नृत्याय उद्युक्ताः।
स्थानीयजनाः एतं उत्सवं स्वस्य आस्थायाः परम्परायाः सामुदायिकएकतायाः च प्रतीकम् इति मन्यन्ते। आयोजनोपलक्ष्य ग्रामसमितिभिः, अर्चकेभ्यः, स्थानीयप्रशासनस्य च पक्षे विशेषव्यवस्थाः कृताः। गुरुकैलापीरबग्वाल् उत्सवेन सह बूढाकेदारप्रदेशः पुनरपि देवभूमेः समृद्धसांस्कृतिकन्यासस्य साक्षी अभवत्, यत्र परम्परा भक्तिश्च अद्वितीयं संयोगं दर्शयतः। लखनऊतः स्व-मातृगृहं दीपावली-उत्सवं कर्तुं आगता सुगन्धागुसाई इत्युक्तवती यत् देशे यत्र तत्र आचर्यमानाया दीपावल्याः एकमासानन्तरम् बुढाकेदारक्षेत्रे दीपावली आचर्यते। सा प्रतिवर्षं स्व-मातृगृहे परिवारैः सह एतां दीपावलीं कर्तुम् आगच्छति।
बूढाकेदारस्य प्रधानः बचेन्द्रः सेमवाल् उक्तवान् यत् उत्तरकाशीटिहरीजनपदयोः त्रिषु न्याय-पञ्चायतासु संलग्नानि १८० ग्रामाणि मार्गशीर्ष-दीपावलीमाचरन्ति।
बूढाकेदारकैलापीरमन्दिरसमितेः अध्यक्षः भूपेन्द्रसिंहः नेगिः उक्तवान् यत् आराध्यदेवता गुरुकैलापीरस्य नाम्ना एषः दीपोत्सवः अत्र आचर्यते। सः अपि अवदत् यत् गुरुकैलापीरः चम्पावतप्रदेशात् अत्र आगतः आसीत्।
हिन्दुस्थान समाचार / ANSHU GUPTA