Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 20 नवंबरमासः (हि.स)।
केंद्रियवाणिज्य तथा उद्योगमन्त्री पीयूष गोयलः गुरुवासरे अवदत् यत् भारतदेशे इजराइलीसंस्थाभ्यः निवेशस्य असीमाः अवसराः विद्यन्ते। तेन उक्तं यत् उभयोः देशयोः उद्योगक्षेत्रे अधिष्ठानसुव्यवस्थायाः विकासे विनिर्माणक्षेत्रे कृत्रिमबुद्धेः क्षेत्रे च परस्परसहयोगः विस्तारयितुं शक्यते।
त्रिदिवसीय अधिकृतभ्रमणाय गतः केंद्रियवाणिज्य तथा उद्योगमन्त्री गोयलः भारतइजराइलव्यापारशिखरसम्मेलने सभासद्भ्यः सम्बोधितवान्। तेन अवोचत् यत् उभयोः राष्ट्रयोः मध्ये असीमिताः सम्भावनाः सामर्थ्यं च दृश्यते। गोयलमहदयः अग्रे अपि अवदत् यत् वित्तीयप्रौद्योगिकी कृषिप्रौद्योगिकी मशीनलर्निंग क्वांटम कंप्यूटिंग औषधिनिर्माणम् अंतरिक्षम् रक्षा इत्येते अन्ये क्षेत्राः अपि परस्परसहयोगस्य विषयाः सन्ति।
केंद्रियमन्त्री अवदत् यत् अनेकानि कारणानि भारतं आकर्षकं निवेशगन्तव्यं कुर्वन्ति। एतेषु लोकतन्त्रं जनसंख्या सम्बन्धी लाभः डिजिटलीकरणम् शीघ्रगतिकविकासः निर्णायकनेतृत्वं च प्रमुखानि भवन्ति।
अस्मिन् एव कार्यक्रमे इजराइलदेशस्य आर्थिककार्यविवागस्य मन्त्री नीर बरकत् अवदत् यत् भारतीयाः अधिष्ठाननिर्माणकम्पन्यः अत्र आगत्य निविदां दातुं शक्नुवन्ति। सः अवदत् यत् भारतपश्चिमएशियायूरोप आर्थिकगलियारा इत्याख्यः आयएमईसी अपि सहयोगवृद्धेः उत्तमं अवसरं ददाति। अयं आयएमईसी उपक्रमः सप्टेम्बर मासे द्विसहस्रत्रिंशत् वर्षे दिल्लीस्थे जी विंशतिः शिखरसम्मेलने अन्तिमरूपेण स्वीकृतः आसीत्।
गोयलमहाराजः इजराइलदेशे षष्टिसदस्यीयव्यापारप्रतिनिधिमण्डलस्य नेतृत्वं करोति। प्रथमवारं भवति यदा कश्चन भारतीयवाणिज्यमन्त्री इजराइले यावत् आगतः। सः द्विपक्षीयव्यापारं निवेशं च कथं विस्तारयितुं शक्येत् इति विषये राष्ट्रनेतृभिः तथा कम्पनीप्रधानैः सह चर्चां करिष्यति।
---------------
हिन्दुस्थान समाचार