एस्आइआर् : एकः जनः एकस्मिन् स्थाने एव प्रपत्रं समर्पणीयम्; बहुषु स्थानेषु समर्पणं करिष्यति तर्हि कारावासोऽपि भवितुम् अर्हति।
केनचित् जनेन सप्तसु स्थानेषु स्वनाम्ना गणनाप्रपत्राणि समर्पितानि। मुरादाबादम्, २० नवम्बरमासः (हि.स.)। मतदातानामावलिम् अधिकं यथार्थां कर्तुं मुरादाबादजनपदे विशिष्टः गहनपुनरीक्षणकार्यक्रमः शीघ्रगत्या प्रवर्तते। अस्मिन् मध्ये क्वचित् जनाः दुष्टचेष्टा
जिला अधिकारी अनुज सिंह।


केनचित् जनेन सप्तसु स्थानेषु स्वनाम्ना गणनाप्रपत्राणि समर्पितानि।

मुरादाबादम्, २० नवम्बरमासः (हि.स.)। मतदातानामावलिम् अधिकं यथार्थां कर्तुं मुरादाबादजनपदे विशिष्टः गहनपुनरीक्षणकार्यक्रमः शीघ्रगत्या प्रवर्तते। अस्मिन् मध्ये क्वचित् जनाः दुष्टचेष्टां कर्तुं न विहन्ति। एकः एव जनः सप्तसु स्थानेषु स्वनाम्ना गणनाप्रपत्राणि पूरितवान्। जनपदप्रशासनस्य नियंत्रणेन एतादृशाः बहवः प्रकरणाः प्राप्ताः। जनपदाधिकारी अवदत् ये जनाः बहुषु स्थानेषु गणनाप्रपत्राणि पूरयन्ति, तेषां विरुद्धं वैधानिककार्यवाहि भविष्यति।

प्रशासनम् एतादृशान् जनान् चेतयति यत् एतत् नियमतः अपराधः। एवं कुर्वतः एकवर्षपर्यन्तं कारावासः दण्डश्च विधीयेत।उपजनपदानिर्वाचनाधिकारी तथा अपरजनपदादण्डाधिकरी संगीतागौतम उक्तवती—बीएलओ प्रेषितप्रतिवेदनम् अनुसारं यावत् इदानीं जनपदे ९८% गृहेषु गणनाप्रपत्रवितरणं सम्पन्नम्। प्रक्रियानुसारं बीएलओ जनैः प्रत्येकं गृहम् त्रिवारम् अवश्यं स्पृष्टव्यम्। जनान् प्रपत्राणि दत्तानि, सततं च तानि पूरयितुं प्रोत्साहितम्। एकस्य जनस्य कार्यं एकवारमेव मतदातासूचौ भवेत् इति हेतोः वैधानिकप्रपत्रानां सत्यापनं क्रियते।जनपदाधिकारी अनुजसिंहः गुरुवासरे अवदत् १२% अभिलेखानां अङ्कीयकरणम् अपि कृतम्। केचन एवमेव प्रकाशं प्राप्ताः यत्र जनैः बहुषु स्थानेषु गणनाप्रपत्राणि पूरितानि। एतेषां विरुद्धं वैधानिककार्यवाहि अवश्यमेव क्रियते।

हिन्दुस्थान समाचार / Dheeraj Maithani