Enter your Email Address to subscribe to our newsletters

बेलेमम् (ब्राजील), 20 नवंबरमासः (हि.स.)।भारतदेशेन संयुक्तक्रेडिटिंगमेकैनिजम् इत्यस्य जेसीएम नामकं तंत्रं वैश्विकस्तरे न्यायसंगतं व्यापकस्तरेण च कार्यान्वयनीयम् जलवायु समाधानम् इति महत्वपूर्णसाधनरूपेण निर्दिष्टम्। केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवेन अत्र आयोजिते संयुक्तराष्ट्रजलवायुपरिवर्तनसम्मेलने कॉप त्रिंशत् इत्यस्य समये जापानदेशस्य पर्यावरणमन्त्रालयेन आयोजितायां एकादशम्यां जेसीएम भागीदारदेशानां बैठकायाम् एतदुक्तम्। बैठकायाः अध्यक्षता जापानदेशस्य पर्यावरणमन्त्री हीरोतका इसिहारा चकार।
इसिहारा अवदत् यत् जेसीएम साझेदारदेशानां संख्या एकत्रिंशत् जाता अस्ति तथा द्विशत्शीताधिकाः परियोजनाः पेरिससमझौतस्य अनुच्छेद षष्ठस्य अन्तर्गतं प्रवर्तन्ते। एषः सहयोगः दीर्घकालिकनिवेशे क्षमता निर्माणे जलवायु लचील्यपरियोजनासु च देशानां सहभागितां सुनिश्चितं करिष्यति।
यादवः अवदत् यत् यदा विश्वं व्यापकस्तरेण कार्यान्वयनीयम् न्यायपूर्णं तकनीकाधारितं च जलवायु समाधानम् अन्विष्यति तदा जेसीएम इत्यादयः सहयोगात्मकतंत्राणि अत्यन्तं महत्वपूर्णानि भवन्ति। एतत् भारतजापानयोः विश्वासस्य तकनीकीसहयोगस्य सततविकासप्रतिबद्धतायाश्च दृढसाझेदारीस्य प्रतीकं इति अपि स्मारितम्।
भारतजापानयोः अस्य वर्षस्य सप्तमे अगस्तमासे सम्पन्नस्य समझौतपत्रस्य उल्लेखं कृत्वा यादवः अवदत् यत् जेसीएम अनुच्छेद षष्ठस्य अनुरूपेण कार्यं करोति तथा सरकाराणां निजीक्षेत्रस्य च संयुक्तरूपेण उत्सर्जनकर्षणपरियोजनाः विकसितुं वित्तसंग्रहं कर्तुं उन्नत्तंत्रज्ञानं उपयोजितुं पारदर्शकत्वेन उत्सर्जनकर्षणफलं साझा कर्तुं च उपयुक्तं संरचनां प्रदाति।
यादवेन उक्तम् यत् जेसीएम इत्यस्य लाभः भारतस्य राष्ट्रियस्तरे निर्धारितयोगदानाय दीर्घकालिकनिम्नउत्सर्जनविकासरणनीत्यै च प्रत्यक्षरूपेण भविष्यति। अनुमोदिताः अल्पकार्बनतंत्रज्ञानाः भारतस्य दीर्घकालिकलक्ष्येषु प्रोत्साहनं करिष्यन्ति उन्नततंत्रज्ञानानां स्थानीयकरणे च सहायं करिष्यन्ति।
---------------
हिन्दुस्थान समाचार