राष्ट्रपतिः मुर्मु छत्तीसगढ–तेलङ्गान–आन्ध्रप्रदेशानां प्रवासे आद्यदिवसादारभ्य
नवदेहली, 20 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू छत्तीसगढ–तेलङ्गान–आन्ध्रप्रदेशानां त्रिदिवसीयः प्रवासः अद्य प्रारप्स्यते। राष्ट्रपतिभवनस्य प्रवक्त्रा उक्तम् यत् 20 नवम्बरस्य दिने राष्ट्रपति मुर्‍मु चत्तीसगढस्य अम्बिकापुरे आयोजिते जनजाती
राष्ट्रपति द्रौपदी मुर्मु । फोटो - फाइल


नवदेहली, 20 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू छत्तीसगढ–तेलङ्गान–आन्ध्रप्रदेशानां त्रिदिवसीयः प्रवासः अद्य प्रारप्स्यते।

राष्ट्रपतिभवनस्य प्रवक्त्रा उक्तम् यत् 20 नवम्बरस्य दिने राष्ट्रपति मुर्‍मु चत्तीसगढस्य अम्बिकापुरे आयोजिते जनजातीयगौरवदिवससमारेहे सहभागी भविष्यन्ति।

राज्यसर्वकारस्य तत्वावधाने आयोजितस्य अस्य कार्यक्रमस्य उद्देशः जनजातीयसमुदायानां गौरवशालीनां परम्पराणां योगदानस्य च सम्माननम् अस्ति।

राष्ट्रपतिः 21 नवम्बरस्य दिने तेलङ्गानायाः सिकन्दराबादस्थिते राष्ट्रपति–निलयमे, बोलारम्, ‘भारतीय–कला–महोत्सव–2025’ इत्यस्य उद्घाटनं करिष्यन्ति।

अस्य महोत्सवस्य द्वितीयसंस्करणे गुजरात–महाराष्ट्र–राजस्थान–गोवा–दाद्रानगरहवेली–दमनेन्दीव् इत्येषां समृद्धा सांस्कृतिक–पाक–कलात्मक–विरासत् प्रदर्शिता भविष्यति।

उक्तम् अस्ति यत् 22 नवम्बरस्य दिने राष्ट्रपति आन्ध्रप्रदेशस्य पुट्टापर्थिस्थिते प्रशान्तिनिलयमे श्री–सत्यसाई–बाबा इत्यस्य शताब्दीउपलक्ष्ये आयोजिते विशेषसत्रे सहभागी भविष्यन्ति। एतत् आयोजनं सत्यसाई–बाबस्य आध्यात्मिक–सन्देशेषु सेवाकार्येषु च समर्पितां श्रद्धाञ्जलिं रूपेण आयोजितम् अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता