दशवारं बिहारस्य मुख्यमन्त्री जातः नीतीशः कुमारः, प्रधानमन्त्रिणः गृहमन्त्रिणश्च उपस्थितौ राज्यपालेन तस्मै शपथं दापितम्
पटना, 20 नवम्बरमासः (हि.स.) ऐतिहासिके गान्धी-मैदाने प्रधानमन्त्रिणा नरेन्द्रे-मोदीना, गृहमन्त्रिणा अमितशाहेन सह भारतीयजनतापक्ष-शासित-राज्यानां बहुभिः मुख्यमन्त्रिभिः सहितैः नीतीशः कुमारः गुरुवासरे दशमवारं मुख्यमन्त्रिपदे शपथं जग्राह। राज्यपालः आरिफ
मुख्यमंत्री नीतीश शपथ लेते हुए


पटना, 20 नवम्बरमासः (हि.स.) ऐतिहासिके गान्धी-मैदाने प्रधानमन्त्रिणा नरेन्द्रे-मोदीना, गृहमन्त्रिणा अमितशाहेन सह भारतीयजनतापक्ष-शासित-राज्यानां बहुभिः मुख्यमन्त्रिभिः सहितैः नीतीशः कुमारः गुरुवासरे दशमवारं मुख्यमन्त्रिपदे शपथं जग्राह। राज्यपालः आरिफ् मोहम्मद् खाँ तस्मै पद-गोपनीयतयोः शपथं दत्तवान्। नीतीश-कुमारेन सह भारतीयजनतापक्षस्य कोट्यात् सम्राट् चौधरी, विजयकुमारः सिन्हा च पद-गोपनीयताशपथं जग्रतुः।

अद्य नीतीश- मन्त्रिमण्डले ये मन्त्रिणः शपथं ग्रहीतवन्तः, तेषु जमुई-निर्वाचनमण्डलात् विजिता श्रेयसी सिंह् इति युवनेत्री भाजपा-पक्षस्य भागिनी स्थिताऽस्ति। तस्मिन् एव रमा निषादापि सम्मिलिता या अस्मिन् वर्षे अराइ-निर्वाचनमण्डलात् विजिता। एते उभे अपि प्रथमवारं मन्त्रिपदं स्वीकृतवत्यौ।

नीतीश-मन्त्रिमण्डले अन्तर्भूतानि नामानि—

सम्राट् चौधरी, विजय कुमार सिन्हा, विजय चौधरी, विजय प्रसाद यादव, श्रवण कुमार, मंगलपाण्डे, डॉ. दिलीपजायसवालः, अशोकचौधरी, लेसीसिंहः, मदनसाहनी, नितिननवीनः, रामकृपालयादवः, सन्तोषकुमारसुमनः, सुनीलकुमारः, मोहम्मद् जमा खाँ, संजय सिंह् टाइगर, अरुणशङ्करप्रसाद, सुरेन्द्रमेहता, नारायणप्रसाद, रमानिषादः, लाखेन्द्रकुमाररोशनः, श्रेयसीसिंहः, प्रमोदकुमारः, संजय कुमार, संजयकुमारसिंह तथा दीपक प्रकाश।

अनुभवसमन्वितं युवनेत्रभिः सज्जितं च एतत् मन्त्रिमण्डलं। मंगल पाण्डे, नितिन नवीन, अशोक चौधरी, श्रवण कुमार-इत्यादयः पूर्वं विभागानां दायित्वं वहितवन्तः; अपरपक्षे श्रेयसी सिंह्, दीपक प्रकाश, लाखेन्द्र कुमार रोशन, रमा निषाद—एते युवा-नेतारः अपि समाविष्टाः।

शपथग्रहणसमारे भोजपुर्याः गायिका—मैथिली ठाकुर, सांसद-गायकः मनोजः तिवारी, पवनः सिंह्—इत्येते स्वप्रस्तुतिभिः जनमानसं हर्षितवन्तः।

नव-सूचौ सर्वे प्रमुख-वर्गाः प्रदेशाश्च प्रतिनिधित्वेन सम्यक् आविष्टाः। दलिताः, अत्यल्पपिछड़ावर्गीयाः, पिछड़ावर्गीयाः, महिलाः, अल्पसंख्यकाः च—एतेभ्यः पर्याप्तं स्थानं दत्तम्। श्रेयसी सिंह्, रमा निषाद, लेसी सिंह् इत्यादीनां महिलानेत्रीणां समावेशः राजग-समूहस्य नारी-सशक्तीकरणप्रतिबद्धतां दर्शयति। तथा च मोहम्मद् जमा खाँ-इत्यस्य अल्पसंख्यकनेत्रस्य समावेशः भाजपा-जदयू-सर्वकारस्य सामाजिक-समतोलभावनां प्रकाशयति।

हिन्दुस्थान समाचार / अंशु गुप्ता