Enter your Email Address to subscribe to our newsletters

नवदेहली, 20 नवम्बरमासः (हि.स.)। केन्द्रसर्वकारेण विश्वशौचालयदिवसे देशव्यापी ‘अस्माकं शौचालयः, अस्माकं भविष्यम्’ इत्यभियानम् आरब्धम्। अस्य अभियानस्याधीनम् 10 दिसम्बरपर्यन्तं ग्राम्यप्रदेशेषु सामुदायिक-गृहशौचालयानां कार्यक्षमतायाः परीक्षणम्, मर्मकार्याणि, सुसज्जीकरणम्, संचालनव्यवस्थायाः सुदृढीकरणञ्च, व्यापकजनजागरणकार्यक्रमाश्च प्रवर्तिष्यन्ते। एषः अभियानः स्वच्छभारत मिशन-ग्रामीण अन्तर्गतनिर्मितानां शौचालयानां स्थैर्ये तथा ग्रामस्वच्छताव्यवस्थां सुदृढीकर्तुं केन्द्रितम। अस्ति।
केन्द्रीयजलशक्तिमन्त्रालयस्य मतानुसारम्, अभियाने मुख्यकेन्द्रबिन्दुः सामुदायिकशौचालयपरिसराणां गृहशौचालयानां च स्थितेः मूल्यांकनम्, आवश्यकपरिष्कारकार्याणि, स्वच्छतावर्तनस्य प्रोत्साहनञ्च। विद्यालयेषु ग्रामसमुदायेषु च स्वच्छतायाः, मलव्यवस्थापनस्य, जलवाय्वनुकूलस्वच्छतापद्धतेः, सेवाप्रोटोकॉलस्य च विषये जागरणक्रियाः आयोजिताः भविष्यन्ति। जनसहभागितया पूर्णस्वच्छतायाः संस्थापनं कर्तुं लक्ष्यं निर्धारितम्।
अस्य अभियानस्य निमित्तं ग्रामपञ्चायतात् आरभ्य जनपदस्तरपर्यन्तं दायित्वानि निश्चितानि सन्ति तथा सर्वे सम्बद्धविभागाः सक्रियसहभागितां सुनिश्चितुं निर्देशिताः। जागरणक्रियासु राज्येभ्यः स्थानीयप्रमुखव्यक्तीन्, पद्मपुरस्कारप्राप्तान्, पूर्वसैनिकान्, ज्येष्ठनागरिकान्, युवासमूहान्, विद्यालयीबालकान् च सम्मेलयितुम् अनुरोधः कृतः। अभियाने स्वच्छताकर्मिणां सम्मानः, पात्रकुलानां प्रति शौचालयस्वीकृतिपत्रवितरणञ्च अपि अन्तर्भवति।
उल्लेखनीयम् यत् स्वच्छभारत मिशन-ग्रामीण इत्यस्य आरम्भः 2014 तमे वर्षे अभवत्, 2019 तमे वर्षे च देशव्याप्यं 11 कोट्यधिकाश्च शौचालयाः निर्मिताः। मिशनस्य द्वितीयः चरणः 2020 तमे वर्षे प्रारब्धः, यः मुक्तशौचनिवारणस्य स्थिरतायाम्, ग्रामाणां च ओडीएफ प्लस् मॉडलग्रामत्वे परिवर्तनाय च केन्द्रितः। अभियानावधौ राज्येषु केन्द्रशासितप्रदेशेषु च एतानि तन्त्राणि अधिकं सुदृढीकर्तुं निर्देशाः दत्ताः।
हिन्दुस्थान समाचार / अंशु गुप्ता