भारतीयडाकविभागेन आरब्धा “स्टूडेन्ट् मेल्”, स्पीड्-पोस्ट इत्यत्र लाभः भविष्यति
पानीपतम्, २० नवम्बरमासः (हि.स.)। भारतीयडाकविभागेन छात्रान् प्रोत्साहयितुं “स्टूडेन्ट् मेल्” इत्यस्य विशेषलाभयोजना आरब्धा या सर्वेषु डाककार्यालयेषु प्रवर्तते। अस्याः योजनायाः अन्तर्गते स्पीड्पोस्टसेवायां डाकशुल्के 10 प्रतिशतं लाभं प्रदास्यते, या केव
प्रवर अधीक्षक डाकघर , पंकज कुमार मीणा करनाल मण्डल


पानीपतम्, २० नवम्बरमासः (हि.स.)। भारतीयडाकविभागेन छात्रान् प्रोत्साहयितुं “स्टूडेन्ट् मेल्” इत्यस्य विशेषलाभयोजना आरब्धा या सर्वेषु डाककार्यालयेषु प्रवर्तते। अस्याः योजनायाः अन्तर्गते स्पीड्पोस्टसेवायां डाकशुल्के 10 प्रतिशतं लाभं प्रदास्यते, या केवलं रिटेल्-बुकिङ् इत्यस्य अन्तर्गता भविष्यति, न तु बल्क् अथवा बीएनपीएल-ग्राहकानां कृते।

पानीपतडाककार्यालयस्य प्रवराधीक्षकः पंकजकुमारः मीणा इति गुरुवासरे उक्तवान् यत् योजनायाः लाभग्रहणाय प्रेषकः स्वयम् छात्रः एव भवितुमर्हति तथा प्राप्तृपक्षे मान्यताप्राप्तं शिक्षणसंस्थानं (विद्यालयः, महाविद्यालयः, विश्वविद्यालयः) अथवा नियुक्ती संस्था (यथा यूपीएससी, राज्य पीएससी एनटीए इत्यादयः) भवितुमर्हति। आरक्षण-काले छात्रेण स्वस्य वैधं छात्रपरिचयपत्रं मूलरूपेण प्रस्तुतव्यं तस्य च स्पष्टप्रतिलिपिः गणनास्थले समर्पणीया।

छात्रस्य पत्रम्/वैधानिकप्रपत्रस्य अग्रभागे “स्टूडेन्ट् मेल्” इति स्पष्टतया लिखितं भवितुमावश्यकम्। गणनास्थले डाकसहायकः छात्रपरिचयपत्रस्य परीक्षणं कृत्वा प्रेषकस्य नाम तथा आईडी संख्या प्रणालीमध्ये निबन्धिष्यति, तथा च “स्टूडेन्ट् मेल्” विकल्पस्य चयनात् 10 प्रतिशतं लाभं स्वयमेव प्रवर्तिष्यते। एषा लाभा केवलं डाकशुल्के एव भविष्यति। अस्या योजनायाः फलतः छात्रेभ्यः यूपीएससी, राज्य-पीएससी, एनटीए इत्यादीनां परीक्षाणां कृते आवेदनपत्राणि, वैधानिकप्रपत्राणि, शैक्षणिकसामग्री च प्रेषयितुं सुविधा वित्तसंचयं च भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता