Enter your Email Address to subscribe to our newsletters

रायपुरम् , 20 नवंबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः अद्य छत्तीसगढप्रदेशस्य प्रवासे भविष्यन्ति। सा अद्य सरगुजाजनपदस्य अम्बिकापुरनगरे आयोजिते जनजातीयगौरवदिवसस्य कार्यक्रमे सहभागी भविष्यति। अस्मिन् कार्यक्रमे राष्ट्रपति मुख्यातिथिरूपेण उपस्थिताः भविष्यन्ति। समारोहः पीजी कालेज क्रीडांगणमध्ये भविष्यति। अस्य आयोजनस्य अध्यक्षता राज्यपालः रमेन डेका करिष्यन्ति। सुरक्षायाः कठोरव्यवस्थाः कृताः सन्ति। राष्ट्रपति प्रातः एकादशवादने दशमिनिटे पीजी मैदानमध्ये आयोजिते कार्यक्रमे सहभागी भविष्यति। तस्मिन्नेव काले राष्ट्रपति मुख्यमंत्री बैगा गुनिया हदजोड सम्मान योजना तथा मुख्यमंत्री जनजातीय अखरा विकास योजना इति योजनाद्वयं उद्घाटयिष्यति। राष्ट्रपति आगमनार्थं सुचारु सुरक्षा व्यवस्था कृता अस्ति। अम्बिकापुरे सुरक्षायां पुलिसस्य द्विसहस्राः जवानाः नियोजिताः सन्ति। कार्यक्रमे जनजातीयप्रमुखैः सह जनजातीयविद्रोहस्य नायकानां स्वातन्त्र्यसमरसेनानां च कुटुम्बानां सदस्यान् अपि सम्मानयिष्यन्ति। कार्यक्रमे प्रायेण एकघंटायाः उपरान्त राष्ट्रपति द्वादशवादने चत्वारिंशत्मिनिटे अम्बिकापुरतः वीरसुरेन्द्रसायविमानपत्तनस्य दिशा प्रस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार