Enter your Email Address to subscribe to our newsletters

रायपुरम्/अंबिकापुरम्, 20 नवंबरमासः (हि.स.)। छत्तीसगढ् राज्यस्य सरगुजा जनपदस्य मुख्यालये अंबिकापुर नगरे जनजातीय गौरव दिवसस्य आयोजने सम्मिलितुम् अद्य प्रातःकाले राष्ट्रपतिः द्रौपदी मुर्मु आगता। कथोरसुरक्षाव्यास्थायां अंबिकापुरस्य गांधी स्टेडियममध्ये राष्ट्रपतिप्रस्थाने हेलीकॉप्टरस्य अवतरणं अभवत्। ततः राष्ट्रपति मुर्मु कार्यक्रमस्थलं पी.जी. महाविद्यालयस्य मैदानं प्राप्य जनजातीयसमाजस्य जनैः सह संवादम् अकरोत्। ते च छत्तीसगढी तथा आदिवासी संस्कृतेः संबंधित व्यञ्जनस्थालानां निरीक्षणं अपि कृतवन्तः।
अस्मिन् अवसरे तया सह राज्यपालः रेमेन डेका, जनजातीयकार्यमंत्रालयस्य मन्त्री भारतसर्वकारे जुएल ओराम, राज्यमंत्रीः दुर्गा दास उइके, राज्यमंत्रीः तोखन साहू, मुख्यमंत्री विष्णु देव साय, वित्तमन्त्री ओ.पी. चौधरी, कृषिमन्त्री राम विचारनेमाम चान्ये मन्त्रीजनाः उपस्थिताः।
_____________
हिन्दुस्थान समाचार / अंशु गुप्ता