Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 20 नवंबरमासः (हि.स.)।
भारतेन सह दक्षिणपूर्वएशियादेशानां क्षेत्रीयं मुक्तडिजिटलस्वास्थ्यशिखरसम्मेलनम् आरब्धे प्रथमदिने स्वास्थ्यक्षेत्रे डिजिटलसार्वजनिकमूलसुविधा खुले मानकाः जनितकृत्रिमबुद्धिमत्ता च इत्यादिभिः नवोन्मेषीप्रविधिभिः सार्वभौमिकस्वास्थ्यआवरणस्य सुदृढीकरणं विषये विमर्शः अभवत्। बुधवासरादारब्धं त्रिदिवसीयं अस्मिन् सम्मेलने सहभागीदेशाः डिजिटलस्वास्थ्यस्य भविष्यं सहयोगं तांत्रिकमानकीकरणं सुरक्षितमाहितिसंरक्षणं च विषये सहमति प्राप्तवन्तः।
केन्द्रीयइलेक्ट्रॉनिक्सतथा सूचना-प्रौद्योगिकीमन्त्रालयस्य अनुसारं दिल्लीनगरे आरब्धस्य अस्य सम्मेलने राष्ट्रीयईशासनप्रभागः इलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकीमन्त्रालयः राष्ट्रीयस्वास्थ्यप्राधिकरणम् विश्वस्वास्थ्यसंस्था दक्षिणपूर्वएशियादेशीयकार्यालयम् यूनिसेफ् च संयुक्ततया आयोजनं कृतवन्तः। अस्मिन् भारतं बांग्लादेशः श्रीलंका थायलैण्ड् नेपाल मालदीवदेशः च सहिताः प्रदेशस्य वरिष्ठाधिकारिणः विशषज्ञाश्च सहभागीभूताः।
उद्घाटने राष्ट्रियईशासनप्रभागप्रमुखः रजनीशकुमारः अवदत् यत् राष्ट्रीयडिजिटलमूलसुविधानां सुदृढीकरणाय स्वास्थ्यमन्त्रालयस्य इलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकीमन्त्रालयस्य च संयुक्तक्रियावली अपेक्ष्यते। एतेन आधार एकीकृतभुगतानअन्तरफलक कोविन आयुष्मानभारतडिजिटलमिशन इत्यादयः राष्ट्रियमञ्चाः सुरक्षिताः परस्परसङ्गताः च भविष्यन्ति।
विश्वस्वास्थ्यसंस्थायाः अधिकारी मनोजझालानी अवदत् यत् आयं सम्मेलनं क्षेत्रीयतांत्रिकक्षमतां वर्धयिष्यति। यूनिसेफप्रतिनिधिः अर्जनदेवाग्त् अवदत् यत् डिजिटलस्वास्थ्यविकासे समुदायस्य स्वास्थ्यकर्मिणां बालकानां च आवश्यकतासु समं ध्यानं भवितव्यम्।
राष्ट्रीयस्वास्थ्यप्राधिकरणप्रमुखः डा. सुनीलकुमारबर्नवालः अवदत् यत् भारतस्य डिजिटलतन्त्रं दर्शयति यत् बृहत्प्रमाणे उपयोक्तव्यात् सार्वजनिकडिजिटलसुविधाः समाजे वास्तविकान् लाभान् ददाति। स्वास्थ्यसचिवा पुण्यसलिलाश्रीवास्तवो अवदत् यत् स्वास्थ्यफलं केवलं स्वास्थ्यसेवाभिः न निर्भरति, किं तु शिक्षण पोषण स्वच्छता सामाजिकसुरक्षा इत्यादिषु अपि निर्भरति। अतः विभिन्नमन्त्रालयानां डिजिटलतन्त्राणां समेकनम् आवश्यकम्।
प्रथमसंवादसत्रे विशषज्ञैः उक्तं यत् डिजिटलस्वास्थ्यपरिवर्तनाय खुले मानकाः पूर्णस्तरीयतन्त्रं डिजिटलसार्वजनिकमूलसुविधानां च महत्त्वपूर्णानि। द्वितीयसत्रे डिजिटलपहचान भुगतानतन्त्र डेटा-विनिमय रजिस्टर इत्यादीनां प्रमुखडिजिटलसार्वजनिकसंरचनानां भूमिकायां चर्चा अभवत्। विशषज्ञाः अवदन् यत् डिजिटलस्वीकरणेन सह स्वास्थ्यफलम् नागरिकसशक्तिकरणं च सफलता-मापदण्डत्वेन दृष्टव्यौ।
तृतीयसत्रे स्वास्थ्यडेटा-विनिमयस्य वैश्विकमानकस्य एफएचआईआर इत्यस्य प्रवर्तनाय स्थायीप्रशासनसुधाराः सहयोगतन्त्रं प्रशिक्षितमानवसंसाधनं च अत्यन्तं महत्वपूर्णं इति निर्दिष्टम्।
चतुर्थसत्रे भारतः श्रीलंका थायलैण्ड् च स्वस्वस्वास्थ्यडिजिटलतन्त्राणां अनुभवांश्च प्रकाशितवन्तः।
पञ्चम षष्ठसत्रयोः जनितकृत्रिमबुद्धिमत्तायाः संभावनाः तस्य व्यवहारिकप्रयोगाश्च प्रदर्शिताः। विशेषज्ञैः भारतीयअन्तर्राष्ट्रीयसंस्थाभिः च अवोचि यत् जनितकृत्रिमबुद्धिमत्ता स्वास्थ्यसेवेषु दक्षतां शुद्धतां न्यायसंगतप्रवेशनं च वर्धयति।
-----------
हिन्दुस्थान समाचार