मध्यप्रदेशे अद्यारभ्य ‘पीएम्-श्री’ हेलि-पर्यटन-सेवायाः नियमित-संचालनम् आरप्स्यते
- मध्यप्रदेशः देशे अन्तरराज्यीय-पर्यटन-हेलीकॉप्टर-सेवां आरभमानः प्रथमः राज्यः अभवत्। PM-श्री-हेलि-पर्यटन-सेवायाः साहाय्येन अधुना क्षणमात्रेण उज्जयिनी–ओंकारेश्वर- ज्योतिर्लिङ्गयोः दर्शनं भविष्यति। भोपालम्, 20 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य वायु
पीएम श्री हेली पर्यटन सेवा


- मध्यप्रदेशः देशे अन्तरराज्यीय-पर्यटन-हेलीकॉप्टर-सेवां आरभमानः प्रथमः राज्यः अभवत्।

PM-श्री-हेलि-पर्यटन-सेवायाः साहाय्येन अधुना क्षणमात्रेण उज्जयिनी–ओंकारेश्वर- ज्योतिर्लिङ्गयोः दर्शनं भविष्यति।

भोपालम्, 20 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य वायुसंपर्कम् अधिकं करणीयम्, पर्यटकानां च शीघ्र–सुगम–सुरक्षित–सेवानां प्रदाने उद्दिश्य आरब्धा “पीएम–श्री हेली पर्यटन सेवा” अद्य गुरुवासरे नियमितरूपेण संचालनं प्रारभत इति निवेद्यते। आध्यात्मिक–इको–पर्यटनवन्यजीवपर्यटन–स्थलानाम् मध्ये तीव्रं सुगमं च वायुसंयोजनं सुनिश्चित्य एषा नूतना सुविधा पर्यटकान् अल्पकाले बहून् गन्तव्यस्थानान् प्रति नयितुं समर्था भविष्यति, राज्यस्य पर्यटन–क्षमतां च नवमानान् प्रति नयिष्यति। अस्याः सेवायाः प्रमुखा विशेषता या अस्ति सा एषा—उज्जयिनी–ओंकारेश्वर–ज्योर्तिलिङ्गयोः यात्रां केवलं २०–४० निमिषेषु सम्भवनीयं करिष्यति, भोपालतः पञ्चमढी–यात्रा अपि केवलम् एकघण्टे सम्पूर्णा भविष्यति।

पर्यटन–संस्कृति–विभागस्य अपरमुख्यसचिवः तथा मध्यमप्रदेश–पर्यटन–आयोगस्य प्रबन्ध–संचालकः शिव–शेखरः शुक्लः अवदत् यत् मुख्यमन्त्री डॉ. मोहनयादवेन राज्यस्य ७०तम–स्थापना–दिवसे नवम्बर्–१ दिनाङ्के भोपालतः “पीएम–श्री हेली पर्यटन सेवा” उद्घाटिता आसीत्। अद्य तस्याः नियमित–संचालनम् आरभ्यते। अस्य सह मध्यप्रदेशः देशे अन्तरराज्यपर्यटनहेलीकॉप्टर–सेवा आरब्धुम् प्रथमं राज्यं जातम् इति अपि प्रोक्तम्। अस्याः सेवायाः बुकिङ् flyola.in, air.irctc.co.in/flyola तथा transbharat.in इत्येषु उपलब्धा भविष्यति।

अपरमुख्यसचिवेन उक्तम् यत् पीएम–श्री हेली पर्यटन सेवा मध्यमप्रदेशस्य प्रमुख–आध्यात्मिकवन्यजीव ऐतिहासिक– सांस्कृतिक–प्राकृतिकस्थलान् एका वायुनिभेन संयोजयितुं कृतः अभिनवः प्रयत्नः अस्ति। अल्पकाले गन्तव्यप्राप्तिः, किफायती–भाड़ा, सुगमता च—एतेषां विशेषाणां कारणेन एषा सेवा यात्रिकाणां अनुभवं अत्यन्तं सहजं आकर्षकं च करिष्यति। एषा योजना हाईवैल्यूटूरिज्म, साहसिक–पर्यटनं, आध्यात्मिकपर्यटनं च प्रवर्धयिष्यति; देशीय-अन्तर्राष्ट्रीयपर्यटकानां संख्यायां च वृद्धि सुनिश्चितं करिष्यति।

आध्यात्मिक–सेक्टरः — उज्जयिनी–ओंकारेश्वर–यात्रा मिनटेषु एव

शुक्लेन उक्तम्—आध्यात्मिक–सेक्टर् अन्तर्गते इन्दौर–उज्जयिनी–ओंकारेश्वर–मार्गः संयोजितः। इन्दौरतः उज्जयिनी–यात्रायाः २०–निमिष–उड़ानस्य भाटकम् ५ सहस्र–रूप्यकाणि, उज्जयिन्याः ओंकारेश्वरपर्यन्तं ४०–निमिष–उड़ानस्य भाटकम् ६५०० रूप्यकाणि, ओंकारेश्वरतः इन्दौर–प्रतिनिवृत्तेः भाटकम् ५५०० रूप्यकाणि निर्धारितम्। अस्य सेक्टरस्य माध्यमेन भक्ताः एकस्मिन् दिने एव महाकालेश्वर–ओंकारेश्वर इत्युभयोर् ज्योर्तिलिङ्गयोः दर्शनं सुगमेन प्रकारेण कर्तुं शक्नुवन्ति।

इको–टूरिज्म–सेक्टरः — भोपाल–मढै–पञ्चमढी

इको–पर्यटन–सेक्टर् अन्तर्गते भोपालतः मढै–यात्रायाः ४०–निमिष–उड़ानस्य भाटकम् ४ सहस्र रूप्यकाणि, मढै–पञ्चमढी–यात्रायाः २०–निमिष–भाटकम् ३ सहस्र–रूप्यकाणि इति विनिर्णीतम्। भोपालतः पञ्चमढीयात्रायाः एकघण्टा–साक्षात्–उड़ानम् अपि उपलब्धं भविष्यति, यस्य भाड़ा ५ सहस्र रूप्यकाणि। पञ्चमढ्यां जॉय–राइड्स् नाम विकल्पोऽपि उपलब्धः, येन प्रकृति–आधारित–अनुभवः अतिशयम् आह्लादकः भविष्यति।

वाइल्डलाइफ़–सेक्टरः — जबलपुरकान्हाबांधवगढ–अमरकण्टकम्

वाइल्डलाइफ़सेक्टर् अन्तर्गते जबलपुरं कान्हाबांधवगढाभ्यां संयोजितम्। जबलपुर–मैहर–यात्रायाः उड़ान–भाटकम् ५ सहस्र–रूप्यकाणि, मैहरचित्रकूट् २५००, जबलपुरकान्हा ६२५०, बांधवगढ ३७५० तथा अमरकण्टकं प्रति एकघण्टा–उड़ान–भाटकम् ५ सहस्र रूप्यकाणि भविष्यति। अस्य तीव्रसंयोजनेन पर्यटकाः अल्पकाले अधिकस्थलभ्रमणं कर्तुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता