Enter your Email Address to subscribe to our newsletters

बाराबंकी, 20 नवंबरमासः (हि.स.)।
सरदारवल्लभभाइपटेलस्य शतपञ्चाशत्तमजयंतीसमये पूर्वविधायकस्य शरदअवस्थीनाम नेतृत्त्वे पञ्चमुखिहनुमन्मन्दिरात् भव्यं रन फॉर यूनिटी इति पदयात्रा निर्गता। सा यात्रा रामनगरकस्बं गत्वा महादेवऋ ऑडिटोरियमपर्यन्तं उत्साहपूर्णवातावरणे सम्यक् सम्पन्ना। कार्यक्रमे बहुसंख्यकाः विद्यालयीयबालकाः पार्टीकार्यकर्तारश्च सहभागीभूत्वा राष्ट्रीयैकताया संदेशं दत्तवन्तः।
यात्रायां मुख्यतया एम एल सी अंगदसिंह युवा नेता राहुलसिंह समाजसेवी अमरेन्द्रसिंह मण्डलाध्यक्षः कमलेशशुक्लः वरिष्ठभाजपानेता शैलेन्द्रसिंह दर्जाप्राप्तराज्यमन्त्री गिरिशचन्द्रमिश्रः प्राचार्य डाक्टरकौशलेंद्रविक्रममिश्र इन्द्रमणि दीपूअवस्थी शेखरहयारण आशीषसिंह च उपस्थिताः आसन्। सर्वे अतिथयः बालकान् उत्साहितवन्तः तथा सरदारपटेलेन प्रदत्ते राष्ट्रनिर्माणैकताच मार्गे चलितुं आह्वानं कृतवन्तः।
डी जे इत्यत्र प्रवर्तमानेषु देशगीतिषु तिरङ्गध्वजैः एकतासंदेशयुक्ताः पट्टिकाः वहन्तः विद्यालयीयबालकाः पार्टीकार्यकर्तारश्च पदयात्रां कुर्वन्तः सर्वत्र देशभक्तेः अलखं जागरयामासुः। महादेवऋ ऑडिटोरियमं प्राप्ते यात्राप्रतिभागिनां स्वागतं कृतम् तथा कार्यक्रमः राष्ट्रगीतस्य गायनेन समाप्तः।
नेतारः अवदन् यत् सरदारपटेलस्य शतपञ्चाशत्तमजयंत्याः निमित्तेन आयोजिताया अस्याः यात्रायाः भाविन्याः संततिं प्रति एकतायाः अखण्डतायाः राष्ट्रीयचरित्रस्य च विषये जागरूकतां वर्धयितुं महानं साधनं भवेत्।
---------------
हिन्दुस्थान समाचार