Enter your Email Address to subscribe to our newsletters


रामगढ़, 20 नवंबरमासः (हि.स.)।
रामगढ कृषिविज्ञानकेन्द्रपरिसरे प्रधानमन्त्रिणः किसानसम्माननिधियोजनायाः एकविंशतितमस्य किस्त इति नामकस्य प्रत्यक्षप्रसारणं कृतम्। कार्यक्रमस्य आरम्भः पञ्जीकरणेन कृषकस्वागतेन च अभवत्। अनन्तरं प्रधानमन्त्रिणा देशव्यापिनां कृषकानां कृते मोचितस्य एकविंशतितमस्य किस्त इत्यस्य प्रत्यक्षप्रसारणं दृष्ट्वा कृषकानां मध्ये विशेषः उत्साहो दृश्यते स्म।
अस्मिन् अवसर कार्यवाहकप्रमुखः डॉक्टरेन्द्रजीत् कृषकान् संबोध्य अवदत् यत् प्रधानमन्त्रीकिसानसम्माननिधिरूपाः योजनाः कृषकानां आर्थिकसामर्थ्यं दृढीकुर्वन्ति। के वी के इत्यस्य प्रयत्नः अस्ति यत् जिलस्य प्रत्येककृषकस्य समीपे नवीनतमाः कृषितन्त्रज्ञानानि वैज्ञानिकसल्लाहाः सरकारीयोजनाः च सुलभतया प्राप्यन्ताम्। अस्माकं लक्ष्यं यत् कृषकाः आधुनिकतन्त्रज्ञानं स्वीकरोतु उत्पादनं वर्धयन्तु कृषिं च लाभदायिकव्यवसायरूपेण स्थापयन्तु।
एवमेव क्रमशः के वी के इत्यनेन कृषकगोष्ठ्या आयोजिता। यस्मिन् कृषिविशेषज्ञैः रबिफसलानां उन्नततन्त्रज्ञानम् प्राकृतिककृषिः एकीकृतपोषणव्यवस्थापनम् जलसंरक्षणम् पशुपालनाधारितायवृद्धिश्च विस्तरेण प्रदर्शिता। केन्द्रस्य प्रक्षेत्रप्रबन्धकः सनीकुमार इत्यनेन कृषियन्त्रप्रयोगे कृषकान् प्रेरितवन्तः यत् आधुनिककृषियन्त्राणि केवलं श्रमसमययोः संरक्षणं न कुर्वन्ति किन्तु उत्पादनक्षमतां बहुगुणितां भवन्ति। के वी के इत्यत्र सुलभानि हैप्पीसीडर मल्चर पावरवीडर रीपर ड्रमसीडर मिनीटिलर इत्यादीनि यन्त्राणि उपयुज्य कृषका अल्पव्यये बहुषु क्षेत्रेषु गुणवत्तायुक्तां खेती कर्तुं शक्नुवन्ति।
एवं बी टी एम् धर्मजीतः कृषकान् प्रति अवोचत् यत् रामगढजिलस्य कृषकाः अत्यन्तं परिश्रमी भवन्ति नवतन्त्रज्ञानान्यपि शीघ्रं गृह्णन्ति च। पीएम किसानसम्माननिधिरूपा योजना तान् आर्थिकस्थैर्यं ददाति येन ते उन्नतकृषितन्त्रज्ञानस्य निवेशं कर्तुं शक्नुवन्ति। अस्माकं प्रयत्नः अस्ति यत् प्रत्येककृषकः योजनायाः सम्यग् लाभं लभेत वैज्ञानिकपद्धतयः उपयुज्य उत्पादनं वर्धयेत् च।
केन्द्रस्य मौसमप्रवेक्षकः शशिकान्तचौबे अवदत् यत् मौसमपूर्वानुमानाधारितकृषिसल्लाहा अद्यतनकाले अनिवार्या। समयोचितसल्लाहया कृषका सिंचन उर्वरकव्यवस्थापनं कीटप्रकोपनियन्त्रणं रोगव्यवस्थापनं च सम्यग् निर्णेतुं शक्नुवन्ति। एतेन न केवलं फसलहानिः न्यूना भवति किन्तु व्ययः अपि लघु भवति उत्पादनं च वर्धते। कृषकाः नियमितरूपेण के वी के इत्यस्य मौसमसन्देशसेवायाः सह योजनीयाः येन साप्ताहिकं सूक्ष्ममौसमसूचनां फसलविशेषसल्लाहां च प्राप्नुयुः।
कृषकाः अवदन् यत् पीएम किसानसम्माननिधियोजना कृशकानां लघु सीमांतकृषकानां च कृते महान् आधारः अस्ति यः खेतीकार्यस्य निरन्तरता स्थापयति। ते अवोचन् यत् एतेषु कार्यक्रमेषु सहभागीभवन्तः नवतन्त्रज्ञानानां ज्ञानम् आप्नुवन् समस्यासु समाधानं लभन्ति सरकारीयोजनानां विषये विस्तृतसूचनाः च प्राप्नुवन्ति इति।
---------------
हिन्दुस्थान समाचार