Enter your Email Address to subscribe to our newsletters

टाेक्याे, 20 नवंबरमासः (हि.स.)।
जापानदेशे विश्वस्य महानतमं परमाणु ऊर्जा संयन्त्रम् ताकाहामा परमाणु ऊर्जा संयन्त्रम् शीघ्रमेव पुनः संचालनाय प्रवर्तितं भविष्यति। फुकुई प्रान्ते स्थितं एतत् विश्वस्य अतिविशालं परमाणु ऊर्जा केन्द्रं यतः अस्य कुलक्षमता अष्टसहस्रद्विशत् द्वादश मेगावाट् अस्ति। किन्तु द्विसहस्रैकादशवर्षे फुकुशिमा दुर्घटनां परं एतत् निष्क्रियं कृतम्।
फुकुई प्रान्तस्य राज्यपालः तात्सुजी सुगिमोतो नामकः गुरुवासरे प्रान्तीयविधानसभायां घोषयन् अवदत् यत् सः कंसाई इलेक्ट्रिक पावर कम्पनीयाः अस्य संयन्त्रस्य एकम् द्वितीयम् इति उभयम् एककम् पुनः प्रारम्भयितुं अन्तिमानुमतिं दास्यति। तेन उक्तं यत् वयम् सुरक्षा मानकान् कठोररूपेण परीक्षितवन्तः नूतनाः नियामकमानदण्डाः अपि संपूर्णतया स्वीकृताः। अतः अहम् शीघ्रमेव पुनःसञ्चालनस्य अनुमतिं दास्यामि। आगामीदिनेषु औपचारिकनिर्णयः भविष्यति।
ताकाहामा संयन्त्रस्य उभे एकके द्विसहस्रैकादशवर्षे फुकुशिमा दुर्घटनानन्तरं स्थगिते जातौ। तस्मिन् समये नव इति तीव्रतातले भूच्छेदः जातः येन पञ्चदश मीटरोन्नता सुनामिलहर्यः उत्पन्नाः येन फुकुशिमा परमाणु संयन्त्रम् जलमग्नम् अभवत्। तेषु षट्सु रिएक्टरसु त्रिषु विस्फोटाः अभवन् येन महती परिमाणे रेडियो सक्रियद्रव्यं वायौ च समुद्रे च व्याप्तम्। यद्यपि प्रत्यक्षरेडिएशनकारणात् कोऽपि न मृतः तथापि रेडियो सक्रियद्रव्यसम्पर्कात् सहस्रशः जनाः थाइरॉइड रोगैः तथा अन्यैः विकारेषु ग्रस्ताः। अद्यापि तस्य चारिपारि विंशतकिलोमीटरपर्यन्तं प्रतिबन्धितक्षेत्रम् अस्ति।
तस्मिन् दुर्घटनाकाले तदानीन्तनप्रधानमन्त्री नाओतो कान इत्यनेन देशस्य सर्वाणि चतु:पञ्चाशत् परमाणुरिएक्टराणि स्थगयितुं आदेशः दत्तः। राज्यपालः तात्सुजी सुगिमोतो अवदत् यत् ताकाहामा संयन्त्रस्य उभौ रिएक्टरौ विंशतिवर्षाधिककालपुरातनौ सन्तौ अपि तौ नियामकसंस्थया द्विविंशतिवर्षपर्यन्तं अतिरिक्तसञ्चालनकालस्य अनुमतिं प्राप्तवन्तौ।
----------
हिन्दुस्थान समाचार