Enter your Email Address to subscribe to our newsletters

भाेपालम्, 21 नवंबरमासः (हि.स.)। भौतिक-विज्ञानस्य क्षेत्रे उत्कृष्टकार्यं कृत्वा विश्वमञ्चे भारतवर्षं गौरवान्वितवन्तः, नोबेल-पुरस्कार-विभूषिताः भारतरत्न-सम्मानिताश्च महान् वैज्ञानिकः चन्द्रशेखरः वेंकटः रमनः—एतेषाम् अद्य शुक्रवासरे पुण्यतिथिः अस्ति। महानस्य वैज्ञानिकस्य सर् सी.वी. रमनस्य पुण्यतिथौ देशः तं स्मरन् श्रद्धाञ्जलिं ददाति। मुख्यमन्त्री डॉ॰ मोहन-यादवः अपि अस्मिन् अवसरे तं स्मृत्वा विनम्राणि श्रद्धासुमनांसि समर्पितवान्।
मुख्यमन्त्री डॉ॰ यादवः सोशल-मीडिया ‘एक्स्’ इत्यत्र प्रकाशितवान्—“नोबेलपुरस्कारसम्मानितस्य, महानस्य वैज्ञानिकस्य सर् सी.वी. रमनस्य पुण्यतिथौ विनम्रा श्रद्धाञ्जलिः। समुद्र-जलस्य आकाशस्य च नीलवर्णस्य कारणं निरूपयितुं महत्त्वपूर्णं ‘रमन-प्रभावम्’ इति अन्वेषणं सहितम्, तेन विविधैः अनुसंधानैः विज्ञान-क्षेत्रे भारतं गौरवान्वितं कृतम्।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता