जुबिननौटियालः महाकालस्य भस्मार्तौ सम्मिलितः
उज्जैनम्, 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे महाकालेश्वरज्योतिर्लिङ्गमन्दिरे अद्य प्रातः देशस्य सुप्रसिद्धगायकः जुबिन् नौटियालः भस्मारत्यां उपस्थितः सन् महाकालभगवतः दर्शनम् अकरोत्। पवित्रस्य भस्मआरत्याः दिव्यपर्या
जुबिन नोटियाल भस्मारती में शामिल हुवे


उज्जैनम्, 21 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे महाकालेश्वरज्योतिर्लिङ्गमन्दिरे अद्य प्रातः देशस्य सुप्रसिद्धगायकः जुबिन् नौटियालः भस्मारत्यां उपस्थितः सन् महाकालभगवतः दर्शनम् अकरोत्। पवित्रस्य भस्मआरत्याः दिव्यपर्यावरणं आध्यात्मिकानुभूतिश्च प्राप्य नौटियालः भावविभोरः दृष्टः।दर्शनानन्तरं मन्दिरपरिसरे तस्य स्वागतं सम्मानं च मन्दिरव्यवस्थापनसमितेः पक्षे सहाय्यप्रशासकेन आशीषफलवाडियेन कृतम्। समितिना तस्मै शाटिका, प्रसादं स्मृतिचिह्नं च प्रदाय महाकालबाबस्य पारम्पर्यात्मकातिथ्यपरम्परां अनुरूपं सम्माननं कृतम्।

अस्मिन् अवसरे जुबिन् नौटियालेन महाकालमन्दिरस्य व्यवस्था, अनुशासनम्, सुरक्षा, भव्यता च मुक्तकण्ठेन प्रशस्ताः। सः अवदत् यत् उज्जयिन्यां महाकालेश्वरमन्दिरस्य दिव्यता धार्मिकगरिमा च अद्भुते स्तः। देशवासिनां सर्वेषां प्रति शुभकामनाः व्यक्त्वा उवाच यत् सः महाकालबाबं देशस्य सुखसमृद्धये प्रार्थयते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता