Enter your Email Address to subscribe to our newsletters

नवदेहली, 21 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी 21 नवम्बरतः 23 नवम्बरपर्यन्त दक्षिण-अफ्रिकायाः दौरे भविष्यन्ति। ते जोहान्सबर्ग-नगर्यां विंशतमे जी–20 अग्रणी-नायकानां शिखर-सम्मेलने भारतस्य प्रतिनिधित्वं करिष्यति। एतत् चतुर्थवारं यदा जी–20 शिखर-सम्मेलनं ग्लोबल् साउथ् इति प्रदेशेषु आयोजितं भवति। अस्मिन् सम्मेलनेऽपि प्रधानमन्त्री मोदी विश्वस्तरे राष्ट्रस्य स्पष्टां प्रभावशालीं च दृष्टिं जगतः पुरतः स्थापयिष्यन्ति। विदेशविभागस्य अनुसारम्, प्रधानमन्त्री त्रिषु मुख्य-सत्रेषु स्वविचारान् प्रकटयिष्यन्ति। प्रथमः सत्रः “समावेशी सतत् आर्थिक-विकासः—कस्यापि परित्यागः न भवेत्” इति विषये केन्द्रितः भविष्यति। अस्मिन् सत्रे अर्थ-व्यवस्थायाः निर्माणम्, व्यापारस्य भूमिका, विकासार्थं वित्तपोषणम्, ऋण-भारस्य व्यवस्थापनम् इत्यादयः विषयाः चर्चिताः भविष्यति। द्वितीयः सत्रः “सक्षमं लचीली च विश्वम्—जी–20 समूहस्य योगदानम्” इति आधारं गृह्णाति। तस्मिन् आपदा-जोखिम-न्यूनीकरणम्, जलवायुपरिवर्तनम्, न्यायसंगतं ऊर्जा-रूपान्तरणम्, वैश्विक-आहार-प्रणालीनां सुदृढीकरणम् इत्यादयः विषयाः विचारिताः भविष्यन्ति। शिखरसम्मेलनस्य तृतीयः सत्रः “सर्वेषां कृते न्यायपूर्णं भविष्यत्” इति विषयं वहति। अस्मिन् महत्त्वपूर्णखनिजप्रबन्धनम्, सम्माननियोजित-रोजगारसृजनम्, कृत्रिमप्रज्ञायाः उत्तरदायी-उपयोगः इत्यादयः प्रमुख-विषयाः भविष्यन्ति। एतेषु विषयेषु भारतस्य दृष्टिकोणः प्रधानमन्त्रिणः भाषणैः विश्वस्य पुरतः प्रकाशितः भविष्यति।
जोहान्सबर्ग-नगर्यां आयोजितस्य अस्य शिखर-सम्मेलनस्य इतर-कक्षेषु अपि प्रधानमन्त्री बहुषु द्विपक्षीय-भेटिषु भागं ग्रहीष्यन्ति। ते नानादेशीय-नेतृभिः सह साक्षात्कारान् कृत्वा परस्पर-हितसम्बद्धान् विषयान् चर्चयिष्यन्ति। अतिरिक्ततया, प्रधानमन्त्री मोदी भारतब्राज़ीलदक्षिण-अफ्रिका (IBSA) राष्ट्रत्रयस्य परस्पर-सहकारं अधिकं सुदृढीकर्तुं आयोजिते IBSA-नायकसमागमेऽपि सहभागी भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता