पश्चिमरेलविभागेन चिटीकापरीक्षणेन १२१.६७ कोटि रूप्यकाणि राजस्वरूपेण प्राप्तानि
WR ACHIEVES BEST EVER TICKET CHECKING PERFORMANCE
पश्चिमरेलविभागेन चिटीकापरीक्षणेन १२१.६७ कोटि रूप्यकाणि राजस्वरूपेण प्राप्तानि


मुंबईनगरम्, 21 नवम्बरमासः (हि.स.)। पश्चिमरेलयानस्य विभागेन 2025 वर्षस्य अप्रैलमासात् अक्टूबरमासपर्यन्तं कालावधौ चिटीकापरिक्षणक्षेत्रे स्वस्य अद्यावधिश्रेष्ठं प्रदर्शनं साधितम्। अस्मिन् काले प्रायः 19 लक्षं अवैधनिरनुज्ञातयात्रिकान् निगृह्य 121.67 कोटि रूप्यकाणि राजस्वरूपेण उपार्जितानि। अनेन सह अअनुदिष्टभार इत्यस्यापि प्रकरणानि समाविष्टानि। एषा उपलब्धिः गतवर्षस्य तस्यैव कालावधौ प्राप्तस्य 80.56 कोटिरूप्यकायस्य तुलनायां 51% वृद्धिं प्रदर्शयति तथा रेलयानकेन्द्रेण निर्धारितलक्ष्यस्य 14% अधिकम् अस्ति।

पश्चिमरेलजनसंपर्कविभागेन प्रकाशितविज्ञप्त्यां उक्तम् यत् अक्टूबर् 2025 मध्ये अपि पश्चिमरेलवे उत्कृष्टं प्रदर्शनं कृत्वा 24 कोटि रूप्यकाणि उपार्जितवती, यत् अस्य कालस्य द्वितीयं सर्वोत्तमं मासिकाभिलेखं विद्यते। पश्चिमरेलस्य श्रेष्ठतमं मासिकायाभिलेखं 2022 मईमासे स्थापितः, यदा प्रायः 26 कोटि रूप्यकाणि प्राप्तानि।

अहमदाबाद्-मण्डलं अपि अक्टूबर् 2025 मध्ये 50 सहस्रप्रकरणानां संज्ञानं कृत्वा 4 कोटि रूप्यकातिरिक्त-राशिं संहृत्य स्वस्य अद्यावधिश्रेष्ठं चिटीकापरिक्षणप्रदर्शनं निबद्धम्। एतदनु, मुख्यालयस्य फ्लाइङ्-स्क्वाड् अपि अक्टूबर् 2025 मध्ये 2.20 कोटि रूप्यकाणि राजस्वरूपेण अर्जयित्वा स्वस्य अतिश्रेष्ठं मासिकाभिलेखं स्थापयत्, यत् मे 2022 मध्ये प्राप्तस्य 2 कोटिरूप्यकपूर्वाभिलेखात् अधिकम् अस्ति।

अक्टूबर् 2025 मासे पश्चिमरेलविभागेन अनेकानि नूतनानि दैनिकराजस्वाभिलेखान्यपि स्थापितानि। पश्चिमरेलविभागेन 17 अक्टूबर् 2025 दिवसे प्रायः 1.40 कोटि रूप्यकाणि प्राप्तानि। तथा 18 अक्टूबरदिनाङ्के अहमदाबादमण्डले 38 लक्षं रूप्यकाणि, रतलाममण्डले च प्रायः 16 लक्षं रूप्यकाणि उपार्जितानि। 19 अक्टूबरदिनाङ्के मुख्यालयस्य फ्लाइङ्-स्क्वाड् इत्यनेन प्रायः 16.30 लक्षरूप्यकायम् अपि निबद्धवती।

हिन्दुस्थान समाचार / Dheeraj Maithani