Enter your Email Address to subscribe to our newsletters

नवदेहली, 22 नवम्बरमासः (हि.स.)। राजधानी-देहलीस्थे एशियन् एण्ड् पैसिफिक् सेन्टर् फॉर् डेवलप्मेण्ट् ऑफ् डिसास्तर् इन्फॉर्मेशन् म्यानेजमेंट् (एपीडिम्) इति संस्थायाः “इन्क्लूसिव् डिजास्तर् रिस्क् डाटा गवर्नन्स्” इति दशम सभायां प्रधानमन्त्रिणा नरेन्द्रमोदिनेतृत्वेन जोखिम-मूल्यांकनम्, पूर्वसूचना-प्रणाली, जलवाय्वनुकूल-संरचना, प्रदेशीय-सहकारश्च इत्येतानि सुदृढीकर्तुं संकल्पः कृतः। अस्मिन् सम्मेलने एशिया-प्रशान्तप्रदेशे आपदा-जलवायुरिस्क्-न्यूनिकीरणाय संयुक्तप्रयत्नानां संवर्धनाय बलं दत्तम्।
गृह-मन्त्रालयस्य अनुसारं भारतीयप्रतिनिधिदलस्य नेतृत्वं केन्द्रीयगृह-राज्यमन्त्री नित्यानन्दरायः अकुरुत। तेन सह राष्ट्रिय आपदाप्रबन्धनप्राधिकरणस्य सदस्य- विभागाध्यक्षश्च राजेन्द्रसिंहः, एनडीएमए-सचिवः मनीषभरद्वाजः च उपस्थिताः।
उद्घाटन-सभायां नित्यानन्दरायः अवदत् यत् भारतं विस्तीर्णं क्षमता-निर्माण-कार्यक्रमं जियोस्पेशल्-प्रौद्योगिकीं, प्रभाव-आधारित-पूर्वानुमानं, जोखिम-मूल्यांकनं, पूर्वसूचना-प्रसारणप्रणाली च प्रचलयन् प्रदेशीय-लचीलत्वं सुदृढयिष्यति। सः उक्तवान् यत् एषा सहभागिता प्रधानमन्त्रिणः आपदा-न्यूनिकरणस्य दशलक्ष्य-कार्यसूच्याः आधारेण प्रवर्तते, या स्थानीय-निवेशं, प्रौद्योगिक्याः उपयोगं, जोखिम-दत्तांशस्य सुदृढीकरणं, प्रदेशीय-सहयोगं च प्रमुखतया गृह्णाति।
सभायां गतवर्षीय-क्रियाकलापानां समीक्षा, 2026 तमे वर्षस्य प्रस्तावित-कार्यक्रमाः, 2026–2030 कालावधेस्य रणनीतिपत्रं च विस्तरेण पर्यालोचितम्। एभ्यः चर्चाभ्यः निष्पन्नः मार्गमानचित्रः एपीडिम्-कार्यानि अग्रे निर्देशयिष्यति, सेंडई-फ्रेम्वर्कं सतत-विकास-लक्ष्यं 2030 च अग्रे नयिष्यति।
अस्मिन् सत्रे बाङ्ग्लादेश्, ईरान्, मालदीव्, कज़ाखस्तान्, मङ्गोलिया, तुर्की इति राष्ट्राणां प्रतिनिधिनायकाः सहभागी आसन्, ताजिकिस्तानः निरीक्षकत्वेन उपस्थितः। सभायां यू.एन्.-ईएसकैप्-प्रशासन-निर्देशकः स्टेफन् कूपरः, एपीडिम्-निर्देशिका लेटिजिया रोस्सानो, वरिष्ठ-समन्वयकः मुस्तफा मोहाङ्घेघ इत्येते अधिकारिणः उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता