Enter your Email Address to subscribe to our newsletters


हैदराबादः, 22 नवंबरमासः (हि.स.)। राज्य–सर्वकारस्य प्रभावेन नीतिभिः च प्रेरिताः शनिवासरे सप्तत्रिंशत् माओवादीनः स्वशस्त्रैः सह तेलङ्गानाराज्यस्य आरक्षक–महानिदेशकस्य समक्षं आत्मसमर्पणं कृतवन्तः। एतेषु माओवादीषु शीर्षनेता आजाद्, नारायणः, एर्रालुः च सन्ति, तैः सह पञ्चविंशति: नार्यः अपि आसन्। आरक्षक–महानिदेशकः एभ्यः सर्वेभ्यः सरकारदत्तम् इनाम, प्रोत्साहन–राशिः, पुनर्वास–सहाय्यम् च दातुम् आश्वासनम् अदात्। अद्य आरक्षक–महानिदेशकस्य शिवधर–रेड्डेः समीपे सप्तत्रिंशत् माओवादीनां आत्मसमर्पणं जातम्। एते माओवादीनः त्रिशोऽस्त्र–राइफल्, जी–त्री–राइफल्, एस्–एल्–आर्, एके–सप्तचत्वारिंशद्–राइफल् च तथा बहुसङ्ख्ये कारतूस्, अन्ये च घोर–शस्त्रसमूहान् आरक्षक–विभागाय सुपुर्दम् अकुर्वन्।
आत्मसमर्पणानन्तरं शिवधररेड्डिः प्रेस्–सम्मेळने उक्तवान् यत् एते सप्तत्रिंशत् माओवादीनः तेलङ्गानस्य मुख्यमन्त्रिणा रेवन्तरेड्डिना कृतस्य आह्वानस्य अनुगुणं मुख्यधारायां सम्मिलितुम् निर्णयं कृतवन्तः। आत्मसमर्पण–कर्तृभ्यः इनाम–राशिः, नगद्–धनम्, प्रोत्साहन–धनम् च दास्यते इति अपि अवदत्। मुख्यमन्त्री पूर्वमेव सार्वजनिकरूपेण उक्तवान् यत् यदि माओवादीनः आत्मसमर्पणं कृत्वा जनसामान्येषु आगच्छेयुः तर्हि राज्य–सरकारा तेषां पुनर्वासार्थं विचारं करिष्यति, मुख्यधारायां प्रवेशे सहायतां च करिष्यति इति।
तेलङ्गानस्य आरक्षक–महानिदेशकः अवदत् यत् केन्द्रसर्वकार आगामि वर्षस्य मार्च्–मासस्य अन्ते पर्यन्तं माओवादी–समस्यां मूलतः निवारयितुम् संकल्पितवती अस्ति। तदनुरूपेण एव तेलङ्गान–राज्य–सरकारापि कार्यं कुर्वन्ति। ‘ऑपरेशन्–कगार्’ इत्यस्य क्रियान्वयनस्य फलस्वरूपं बहवः माओवादीनः वनान् त्यक्त्वा सामान्यजीवनम् अनुसरन्ति स्म। अस्मिन् वर्षे माओवादी–पक्षस्य महासचिवः बसवराजः, केन्द्र–समितेः सदस्याः चलपति, बालकृष्णः, गणेशः, कट्टा–रामचन्द्र–रेड्डिः, कदरी–सत्यनारायण–रेड्डिः, हिड्मा च बहवः अरण्य–सङ्घर्षेषु निहताः सन्ति। चन्द्रन्ना, बन्दिप्रकाशः च स्वस्व–स्वास्थ्य–समस्यां दृष्ट्वा शस्त्रपरित्यागं कृतवन्तः।
आरक्षक–महानिदेशकः अवदत् यत् शीर्ष–नेतृभिः सह सप्तत्रिंशत् माओवादीनां आत्मसमर्पणम् एषां कृते महदाघात–रूपेण दृश्यते। कस्यचित् प्रश्नस्य उत्तररूपेण अवदत् यत् केचन माओवादी–नेतारः सप्ताह–पर्यन्तं आरक्षक–संरक्षणे आसन्। अद्य आत्मसमर्पण–कर्तृषु त्रयः राज्यसमितेः सदस्याः—कोयलसंबय्या उर्फ् आजादः, नारायणः उर्फ् रमेशः, सोमदः उर्फ् एर्राः— सन्ति। अवशिष्टाः चतुस्त्रिंशत् माओवादीनः छत्तीसगढराज्यस्य भवन्ति। आत्मसमर्पण–कर्तृषु त्रयः प्रादेशिक–समितेः सदस्याः, नव–क्षेत्र–समितेः सदस्याः, द्वाविंशतिः फोर्स्–सदस्याः च सन्ति। तत्क्षणमेव एभ्यः 25 सहस्र–रूप्यक–राशिः दत्ता। आजाद्–नाम्ना नेतुः उपरि 20 लक्ष–रूप्यकस्य इनामः, अप्पास–नारायणस्य उपरि अपि 20 लक्ष–रूप्यकस्य इनामः अस्ति। एतत् सर्वं मिलित्वा अद्य आत्मसमर्पण–कर्तृभ्यः कुलम् 1.41 कोटि–रूप्यक–इनाम–राशिः प्रदेया भविष्यति।
आरक्षक–महानिदेशकः अवदत् यत् वर्तमानकाले तेलङ्गानराज्ये 59 माओवादीनः अद्यापि पलायिताः सन्ति। तेषु केन्द्रसमितेः पञ्च सदस्याः—मुप्पल्ल–लक्ष्मणरावः उर्फ् गणपतिः, मल्ल–राजिरेड्डिः उर्फ् संग्रामः, टिप्पिरि–तिरुपतिः उर्फ् देवजी, पाका–हनुमन्तुः उर्फ् गणेशः, बडे–चोक्क–रावः उर्फ् दामोदरः—सन्ति। तदन्ये राज्य–समितेः दशसदस्याः अपि सन्ति। तान् सर्वान् शीघ्रं आत्मसमर्पणं कर्तुम् उपदिशत्।
प्रेस–सम्मेळने आत्मसमर्पण–कर्तृणां तेलङ्गान–समितेः मुख्य–नेता आजादः उक्तवान् यत् राज्य–समितौ अद्यापि केचन मुख्य–नेतारः सन्ति ये आत्मसमर्पणं कर्तुम् इच्छन्ति। सः सर्वान् माओवादी–सदस्यान् प्रति मुख्यधारायां आगन्तुम् आह्वानं कृतवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता