Enter your Email Address to subscribe to our newsletters

रायपुरम्, 22 नवंबरमासः (हि.स.)।मुख्यमन्त्री विष्णुदेव सायः अद्य शनिवासरे राजस्थानस्य एकदिवसीययात्रायां वर्तते। सः रायपुरविमानस्थानकात् उदयपुरस्य (राजस्थानस्य) महाराणाप्रतापविमानस्थानकं प्रति प्रायः सार्ध-अष्टवादने प्रस्थितवान् । सः पालीमण्डलस्य रङ्कापुरस्य पथिकाश्रयलालबाग रिसोर्टं प्रायः सार्धद्वादशवादने आगमिष्यति।
तदनन्तरं सः सायं ४ वादने महाराणाप्रतापविमानस्थानकं प्राप्स्यति। सायं ६:३० वादने रायपुरविमानस्थानकं प्राप्स्यति। सः सायं ६:५० वादने मुख्यमन्त्री निवासस्थानं प्रति आगमिष्यति।
हिन्दुस्थान समाचार