डोनाल्ड्ट्रम्पजूनियरः सिटीपैलेस इत्यत्र डॉ॰ लक्ष्यराजसिंहमेवाडेन सह समभवत्।
उदयपुरम्, २२ नवम्बरमासः (हि.स.)। अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य पुत्रः डोनाल्ड् ट्रम्प्–जूनियरः अद्यतनदिवसेषु उदयपुरनगरस्थे भव्ये विवाहसमारोहे उपस्थितुं आगतः। तस्मिन् अवसरे सः स्वमित्रेण अमेरिकीयव्यवसायिना राज् मण्टेनेन सह उदयपुरस्
डोनाल्ड ट्रंप जूनियर ने सिटी पैलेस में डॉ. लक्ष्यराज सिंह मेवाड़ से की मुलाकात


डोनाल्ड ट्रंप जूनियर ने सिटी पैलेस में डॉ. लक्ष्यराज सिंह मेवाड़ से की मुलाकात


उदयपुरम्, २२ नवम्बरमासः (हि.स.)। अमेरिकायाः राष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य पुत्रः डोनाल्ड् ट्रम्प्–जूनियरः अद्यतनदिवसेषु उदयपुरनगरस्थे भव्ये विवाहसमारोहे उपस्थितुं आगतः। तस्मिन् अवसरे सः स्वमित्रेण अमेरिकीयव्यवसायिना राज् मण्टेनेन सह उदयपुरस्य सिटीपैलेस् इत्यत्र आगत्य मेवाडस्य पूर्व राजपरिवारस्य सदस्यं डॉ॰ लक्ष्यराजसिंहमेवाडेन शिष्टाचारमेलनं कृतवान्।

डॉ॰ मेवाडेन मेवाडीय अतिथ्यपरम्परानुसारं ट्रम्पजूनियरस्य राजमण्टेनस्य च सस्नेहं स्वागतं कृतम्। अस्य मेलनस्य समये मेवाडस्य समृद्धः इतिहासः, संस्कृतिः, वीरपरम्पराश्च विषये विस्तरेण चर्चा अभवत्। चर्चायां डोनाल्ड् ट्रम्पजूनियरः महाराणा कुम्भा, महाराणा सांगा, महाराणा प्रतापादीनां इतिहासपुरुषाणां शौर्ये, धर्मपालने, राष्ट्रनिष्ठायां च विशिष्टं प्रशंसां प्रकटयामास।

तत् अतिरिक्तं वैश्विकस्थितेः वर्तमान-अन्ताराष्ट्रीयघटनाक्रमस्य च विषयेऽपि उभयोर् मननचिन्तनं सम्पन्नम्। ट्रम्प्–जूनियरः मेवाडराजपरिवारस्य विरासतां, उदयपुरस्य सांस्कृतिकन्यासं च प्रशंसन् अवदत् यत् एषः अनुभवः अत्यन्तं स्मरणीयः भविष्यति। अन्ते डॉ॰ लक्ष्यराजसिंहमेवाडेन तस्मै मेवाडप्रतीकचिह्नानि स्मृतिस्वरूपं प्रदत्तानि। ट्रम्पजूनियरः एतानि उपहारान् अतीव विशेषं स्मरणीयं च मन्य स्वातिथ्याय डॉ॰ मेवाडं प्रति हार्दं धन्यवादं व्याहरत्।

हिन्दुस्थान समाचार / Dheeraj Maithani