मध्यप्रदेशस्य मुख्यमन्त्रिणा हैदराबादे ग्रीनएनर्जी-उत्पादनक्षेत्रे अग्रगण्याया ग्रीनकोसंस्थायाः मुख्यालयोऽवलोकितः।
— “हरित-ऊर्जाऽस्ति राष्ट्रविकासस्य दृढतमः स्तम्भः। मध्यप्रदेशे हरित-ऊर्जा-उत्पादनक्षेत्रे निवेशस्य असीमाः सम्भावनाः सन्ति” — मुख्यमंत्री डॉ॰ यादवः। भोपालम्, २२ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः शनिवासरे हैदराबादनगरस्य प्
मप्र के मुख्यमंत्री ने हैदराबाद में किया ग्रीन एनर्जी प्रोडक्शन में अग्रणी ग्रीनको कम्पनी का किया भ्रमण


मप्र के मुख्यमंत्री ने हैदराबाद में किया ग्रीन एनर्जी प्रोडक्शन में अग्रणी ग्रीनको कम्पनी का किया भ्रमण


मुख्यमंत्री की हैदराबाद में ग्रीनको कम्पनी के अधिकारियों के साथ बैठक


— “हरित-ऊर्जाऽस्ति राष्ट्रविकासस्य दृढतमः स्तम्भः। मध्यप्रदेशे हरित-ऊर्जा-उत्पादनक्षेत्रे निवेशस्य असीमाः सम्भावनाः सन्ति” — मुख्यमंत्री डॉ॰ यादवः।

भोपालम्, २२ नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः शनिवासरे हैदराबादनगरस्य प्रवासकाले हरित–ऊर्जाक्षेत्रे विशिष्टकर्मणि प्रवृत्तायाः ग्रीनकोसंस्थायाः मुख्यालयं साक्षात्कृतवान्। अस्मिन् अवसरे सः संस्थायाः अति-आधुनिकप्रौद्योगिकीनां, ऊर्जासंरक्षणप्रणालीनां नवीकरणीय-ऊर्जा-उत्पादनसम्बद्धानां विविधानां परियोजनानां च सूक्ष्मम् अवलोकनम् अकुरुत। तस्मिन् सः अवदत्- “हरित–ऊर्जा अद्य राष्ट्रविकासस्य दृढतमः आधारः भवति। अस्याः उत्पादनस्य अन्वेषणस्य च दिशि ग्रीनकोसमूहस्य योगदानम् अनुकरणीयं प्रशंसनीयं च अस्ति।”

मुख्यमन्त्रिणा डॉ॰ यादवेन संस्थायाः अधिकारिभिः सह सम्पन्ने सौजन्यसम्भाषणे प्रधानमन्त्रिणः नरेन्द्रमोदीनेतृत्वे देशे हरित-ऊर्जानवीकरणीय-ऊर्जा-क्षेत्रयोः जातां ऐतिहासिकीं प्रगतिं उल्लिख्य प्रोक्तम्— “भारतं अद्य हरित-ऊर्जा-उत्पादने विश्वमञ्चे स्वीयां विशिष्टां परीचयम् अलभत। मध्यप्रदेशोऽपि अस्मिन् विषये अग्रगण्यराज्यम् अभवितुम् उद्यतः अस्ति। राज्ये हरित-ऊर्जा-उत्पादन-क्षेत्रे निवेशस्य अनन्ताः सम्भावनाः सन्ति; अस्माकं सर्व कारापि एतदर्थं महान्ति प्रयासानि स्थापयति। निवेशार्थं आगच्छन्तं किञ्चिदपि समूहं, काञ्चनापि संस्थानं वयं हृदयेन स्वागतुम् इच्छामः।”

मुख्यमन्त्रिणः एषः हैदराबादप्रवासः अस्य दिशि एकं महत्त्वपूर्णं प्रयासं निरूपयति। अस्य फलस्वरूपं राज्ये हरित-ऊर्जा-उत्पादनम्, औद्योगिकविकासः, रोजगारसृजनं च नवीनया गत्या प्रसरिष्यते। मध्यप्रदेशग्रीनकोसमूहयोः संभाव्यम् एतत् सहयोगम् राज्यं हरित-ऊर्जा-उत्पादनस्य राष्ट्रियकेन्द्ररूपेण स्थापनायाः दिशि महत्त्वपूर्णः पादः भविष्यति।

मुख्यमन्त्रिणे संस्थायाः समूहः सीईओ तथा प्रबन्धनिदेशकः अनिलचैनमलाशेट्टी देशव्यापिनः संस्थापरियोजनानां भविष्ययोजनानां च विस्तृतां सूचनां अदात्। सः उक्तवान्-“तेषां संस्था मध्यप्रदेशेऽपि स्वस्य व्यापारस्य विस्ताराय निवेश–वृद्धये च गम्भीरतया प्रयासं करोति।”

उल्लेखनीयम् यत् ग्रीनकोसमूहेन मध्यप्रदेशे विस्तीर्णस्तरे हरितोर्जापरियोजनानां स्थापनासम्भावना व्यक्ता। एतेषु १०० जीडब्ल्यू ऊर्जाभण्डारणक्षमता, हरितहाइड्रोजनक्लस्टरः, बायोरिफाइनरीयोजनाः, 2जी इथेनॉलमेथेनॉलसस्टेनेबलएविएशनफ्यूल (एसएएफ) उत्पादनपरियोजनाः च सन्निहिताः ।

ग्रीनकोसंस्थामुख्यालयभ्रमणसमये प्रदेशस्य औद्योगिकनीतिनिवेशप्रोत्साहनविभागस्य प्रमुखसचिवः राघवेन्द्रकुमारसिंहः, एम.पी.आई.डी.सी.अध्यक्षः तथा मुख्यमन्त्रिणः अपरसचिवः चन्द्रमौलीशुक्लः, ग्रीनकोसंस्थायाः अधिकारीणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani