Enter your Email Address to subscribe to our newsletters

पटना, 23 नवंबरमासः (हि.स.)।पटना-जिलाप्रशासनस्य कला-संस्कृति-युवा-विभागस्य च संयुक्ततत्वावधानेन “जिलास्तरीय युवा-उत्सवः २०२५” इत्यस्य आयोजनं आगामि २९ नवम्बर् २०२५ इति तिथौ भविष्यति। आयोजनस्थलम् प्रेमचन्द्र-रङ्गशाला, राजेन्द्रनगरम्, निश्चितम् अस्ति, यत्र सर्वतः आगताः युवाः स्वकला-शिल्परचनात्मकतां च प्रदर्शयिष्यन्ति।
जिला-कला-संस्कृति-पदाधिकारी कीर्ति आलोकः निवेदितवान् यत्, अस्मिन् वर्षे उत्सवं विस्तृततरं, आकर्षकं च कर्तुम् उद्दिश्य षट्सु सांस्कृतिकविधासु स्पर्धाः आयोजिताः भवन्ति यत्
• समूह-लोकनृत्यम्
• समूह-लोकगीतं
• वक्तृता
• कथालेखनम्
• काव्यलेखनम्
• चित्रकला
एषु सर्वेषु स्पर्धासु १५–२९ वर्षपर्यन्तं वयस्का युवा: भागं ग्रहीतुं शक्नुवन्ति।
कला-साहित्यादारभ्य संगीत-नृत्यपर्यन्तं सर्वासु विधासु युवाभ्यः स्वस्य रचनात्मक-अभिव्यक्तेः, कौशलस्य च प्रदर्शनाय अवसरः दास्यते। अस्य उत्सवस्य उद्देश्यः केवलं प्रतिभाभ्यः मंचदर्शनं न, अपि तु युवान् सांस्कृतिकगतिविधिभ्यः सम्बद्धुम्, प्रतियोगितामय वातावरणे उत्कृष्टतायै प्रेरयितुं च अस्ति।
स्पर्धाफलस्वरूपेण प्रत्येकस्यां विधायां प्रथमस्थानं प्राप्तवन्तः प्रतिभागिनः राज्यस्तरीय युवा-उत्सवे जिलस्य प्रतिनिधित्वं करिष्यन्ति। एतत् अवसरं तेषां प्रतिभाशाली-युवानां महतीं पहचानं दास्यति, आत्मविश्वासं च वर्धयिष्यति।
प्रतिभागिनां कृते आवेदनस्य अन्तिम-तिथिः २८ नवम्बर् २०२५ निश्चितम्। इच्छुकाः युवानः आवेदन-प्रक्रियायाः तथा अन्यविवरणानां कृते जिला-कला-संस्कृति-पदाधिकारी-कार्यालयं, तृतीयतलम्, जिला-विकास-भवनम्, पटना-समाहरणालये, गाँधी-करीडांगणस्य समीपे, सम्पर्कं कर्तुं शक्नुवन्ति।
जिलाप्रशासनम् सर्वान् युवान् प्रति आग्रहं कृतवान्—अधिकसंख्यायां सहभागीभूत्वा स्वप्रतिभां प्रकाशयन्तु।
---------------
हिन्दुस्थान समाचार