Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 23 नवम्बरमासः (हि.स.)। जनपदस्य विविधेषु शासकीय-कार्यालयेषु दीर्घकालात् निष्क्रियतया स्थितान् इनऑपरेटिव् बैंक्-अकाउंट् तथा डीफ्-शासकीय-बैंक्-अकाउंट् (डिपॉज़िटर् एजुकेशन् एण्ड् अवेयरनेस् फण्ड् अकाउंट्) इति खातान् अधुना पुनः सञ्चालिताः भविष्यन्ति। अस्य विषये छत्तीसगढ-शासनस्य वित्त- विभागात् प्राप्त-निर्देशानां आधारात् जिलाधिकारी हरिस् एस् द्वारा सर्वान् आहरण-एवं-संवितण-अधिकारीन् आवश्यक-कार्यम् तत्क्षण-प्रभावेन आरभ्य कर्तुं निर्देशितम्।
शासनस्य निर्देशानुसारं एतानि खातानि सक्रियीकृत्य तेषु कोषालय-अधिकारिणः माध्यमेन राशि-निक्षेपणं कर्तुं तथा अग्रे वित्तीय-प्रविष्टीनां सुव्यवस्थापनस्य प्रक्रियां सुनिश्चितां कर्तुं च व्यवस्था क्रियते। अस्य विषयस्य कृते निर्गतम् पत्रं सह संलग्नायां मानक-संचालन-प्रक्रियायां बिन्दु-क्रमाङ्के ३ इत्यत्र खाताधारक-शासकीय-अधिकारिभिः कर्तव्य-कार्याणां विस्तृतं उल्लेखः कृतः अस्ति, तदनुरूपं सर्वेषां विभागानां शीघ्र-अनुपालनं कर्तव्यम् इति उक्तम्। कलेक्टरद्वारा सर्वान् सम्बन्धित-अधिकारीन् निर्देशितं यत् सर्वे सम्बन्धित-विभागाः २६ नवम्बर २०२५ पर्यन्तम् आवश्यक-कार्यम् पूर्णं कृत्वा तस्य सूचना जिला-कोषालयं जगदलपुरम् अनिवार्यतया प्रेषयन्तु। समय-सीमायाः अन्तर्गतं कार्य-निश्चितीकरणे विशेषं बलं दत्तम्।
---------------
हिन्दुस्थान समाचार