Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 23 नवंबरमासः (हि.स.)। छत्तीसगढस्य उपमुख्यमंत्री गृह- मन्त्री च विजयः शर्मा शनिवासरे सायं विलम्बेन आकस्मात् सुक्मा-स्थितं पुनर्वासकेन्द्रं प्राप्तवान्। तत्र सः अस्त्राणि निक्षिप्य मुख्यधारायां पुनरागतानां युवभिः सह चौपालं स्थाप्य तैः सह संवादम् अकरोत्।तस्मिन् समये पुनर्वासितैः युवाभिः स्वभावनाः, समस्याः, अपेक्षाः च निर्भयतया तस्य समक्ष प्रस्तुताः। उपमुख्यमन्त्रिणा अपि तैः सह भूमौ उपविश्य आत्मीयं चर्चनं कृतम्।
सः युवनः प्रति प्रशिक्षण-क्रमस्य विवरणम्, पुनर्वासकेन्द्रस्थ आधारभूत-व्यवस्थापनस्य स्थितिः च प्रत्यक्षतया पृष्टवान्। ततः सः तत्रस्थ-अधिकृतान् भोजन-व्यवस्था, निवास-सुविधा, अनुकुलोपकरणानि च विशेषेण परीक्षितुं निर्देशितवान्।उपमुख्यमंत्री विजय-शर्मा सुक्मायां रात्रौ अपि निवासं कृतवान्।
सूत्रेभ्यः प्राप्त-सूचना-अनुसारम्, रविवासरे उपमुख्यमन्त्रिणः सन्निधौ—बस्तरमण्डले नक्सलानां अन्तिमः कमाण्डरः बार्से देवः हिड्मस्य विश्वसनीयः सहचरः च—बहुभिः नक्सलिभिः सह आत्मसमर्पणं करिष्यति इति अनुमान्यते।
उपमुख्यमन्त्रिणा युवभ्यः शिक्षा, कृषि, परिवार-संयोगः, परिजनेभ्यः भेटनम् इत्यादिषु अपि प्रश्नाः कृताः। सः उवाच—पुनर्वासित-युवानां बान्धवाः यदि केन्द्रं प्राप्तुं इच्छन्ति, विशेषतः बाजार-दिने, तर्हि तेषां भेटनं सुकरतया करिष्यते।यदि कस्यचित् युवनः परिजनाः कारागारे निरुद्धाः स्युः, तेषां भेटनस्य व्यवस्था अपि करिष्यते इति निर्देशितवान्।
युवेषु कश्चन यदि विवाहं कर्तुम् इच्छति, तर्हि तेषां कृते सामूहिक-विवाह-व्यवस्था अपि भविष्यति इति उक्तवान्।
यदा पुनर्वासिताः युवानः मूल-दस्तावेजानाम् अभावम् अवोचन्, तदा उपमुख्यमन्त्रिणा तत्क्षणमेव अधिकृतान् दस्तावेज-निर्माणस्य कार्यं आरम्भयितुं आज्ञापितम्।स्वयम् अपि सः अधिकृतैः सह उपविश्य आधार-कार्ड, आयुष्मान-कार्ड, राशन-कार्ड इत्यादीनां निर्माण-प्रक्रियायाः परीक्षणं च कृतवान्।
युवानां लोकतान्त्रिक-प्रक्रियायाः अवगमाय विधानसभा-दर्शन-यात्रा, तथा पुनर्वासकेन्द्रे विशेष-स्वास्थ्य-शिविर-आयोजनम् इति अपि निर्देशितम्।
उल्लेखनीयम् यत् सुक्मा-पुनर्वासकेन्द्रे युवानां कृते राजमिस्त्री-प्रशिक्षणम्, कृषिउद्यमिता, सीवन-विद्या इत्यादीनि पाठ्यक्रमरूपेण प्रदीयन्ते। पुनर्वास-नीत्यानुसारं तेषां दीर्घकालिक-जीविका-उपलब्धिः अपि सुनिश्चितीक्रियते।
अस्मिन् कार्यक्रमे एडीजी विवेकानन्द-सिन्हा, पुलिस-महानिरीक्षकः सुन्दरराजः पी, कलेक्टरः देवेशकुमार-ध्रुवः, एसपी किरण-चव्हाणः, अपर-कलेक्टरः गजेन्द्रसिंह-ठाकुरः तथा अन्ये अधिकारी उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार