Enter your Email Address to subscribe to our newsletters

बरेली, 23 नवंबरमासः (हि.स.) ।इण्डियन् मेडिकल् असोसिएशन बरेली-शाखायाः रोहिलखण्ड-कैंसर-संस्थानस्य सहयोगेन शनिवार-रात्रौ “आशा, गौरवः, आरामः च – चिकित्सायाः विस्मृतः पक्षः” इति विषयम् आधाय एकं महत्त्वपूर्णं CME-कार्यक्रमम् IMA-भवने, सिविल् लाइन्स् इत्यत्र आयोजितम्। कार्यक्रमे नगरस्य वरिष्ठा युवा चिकित्सकश्च उत्साहेन भागं ग्रहित्वा पैलियेटिव्-केयरस्य आवश्यकता-महत्त्वयोः विषये गंभीरं चिन्तनमन्वगच्छन्।
CME-अवसरे रोहिलखण्ड-मेडिकल्-कॉलेजस्य पैलियेटिव्-मेडिसिन्-विशेषज्ञः डा॰ मयूर् घोघरी विस्तृतं व्याख्यानं प्रावर्तयत्। स: अवदत्—कर्करोग-रोगिणः पीडा, श्वासक्लेशः, रक्तस्रावः, श्रान्तिः, मूर्च्छा, चिन्ता, अवसादः च इत्यादिभिः दैहिक-मानसिक-लक्षणैः क्लिश्यन्ते। अतः कैंसर-रोगस्य निदानात् आरभ्य एव पैलियेटिव्-केयरं प्रदातव्यम्, येन रोगिणां दैहिक-व्यथाः मानसिक-पीडाश्च न्यूनाः भवन्ति। असौ उक्तवान् यद् एवम् प्रकारा सेवा न केवलं रोगिणां जीवन-गुणवत्तां वर्धयति, अपितु तेषां परिवारस्य भावनात्मकं समर्थनं अपि बळयति।
कार्यक्रमस्य संचालनं IMA-पदाधिकारिभिः—डा॰ वी.वी. सिंह (कार्यकारी-अध्यक्षः), डा॰ अंशु अग्रवालः (सचिवः), डा॰ शालिनी महेश्वरी (कोषाध्यक्षी), डा॰ गिरीश् अग्रवालः, डा॰ कामेन्द्रसिंहः इत्येभिः सह अन्यैः चिकित्सकैः कृतम्।
एषा सीएमईचिकित्सकानां कृते अत्यन्तं उपादेयाऽभवत् तथा च रोगी-केंद्रित-चिकित्सा-दृष्टेः नूतनं सुदृढीकरणम् अकरोत्।
हिन्दुस्थान समाचार