Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 नवंबरमासः (हि.स.)।केंद्रीय मन्त्री डॉ जितेन्द्र सिंह अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रस्य मोदिनः नेतृत्वे विज्ञानम् प्रौद्योगिकी च नवोन्मेषः भारतस्य विकास यात्रायाः प्रमुख स्तम्भाः अभवन्। सः अवदत् यत् एतत् संस्थानम् अल्पे काले राष्ट्रस्य वैज्ञानिक क्षेत्रे नूतनां प्रसिद्धिं नूतनाम् ऊर्जा केन्द्रं च जातम्।
वैज्ञानिक अभिनव अनुसंधान अकादम्याः नवमे दीक्षांत समारोह उपरि भाषमाणः डॉ जितेन्द्र सिंह अवदत् यत् वर्षे द्विसहस्र ते त्रिंशत् आरब्धः आई पी एच डी कार्यक्रमः एवम् एकः शिक्षण मॉडल अस्ति यः कल्पनां नवोन्मेषं उद्योगं च प्रत्यक्षतया अनुसंधानेन संयोजयति। आई पी एच डी इत्यस्य आई इति पदं केवलं उद्योगं न सूचयति किन्तु कल्पनां नवोन्मेषं च प्रतीकयति। प्रत्येकं शोधार्थिनं तादृशीं प्रौद्योगिकीं विकसितुं भवति या अनुसंधानम् उद्योगेन समाजेन वा स्टार्ट अप इत्यनेन सह सम्बध्नाति।
डॉ सिंह अवदत् यत् वैज्ञानिक अभिनव अनुसंधान अकादमी केवलं दशक एके देशस्य शीघ्र विकसिते वैज्ञानिक संस्थानानां मध्ये स्थापिताऽस्ति। अस्मिन् संस्थाने प्रायः सप्त सहस्र विद्यार्थिनः त्रि सहस्राधिकाः वैज्ञानिकाश्च एकोनसप्ततिः परिसरेषु कार्यरताः सन्ति। ते अवदन् यत् इदं संस्थानं सी एस आई आर आई सी एम आर डी एस टी आई सी ए आर एम ओ ई एस इत्यादीनि राष्ट्रस्य प्रमुख वैज्ञानिक संस्थानानि एकस्मिन् मञ्चे संगमयन् साझा राष्ट्रीय विश्वविद्यालयः अभवत्।
ते अवोचन् यत् अकादम्याः स्थापना स्वयमेव साहसमयम् आसीत् यस्याः कारणेन पारम्परिक शैक्षणिक ढांचेभ्यः बहिः निर्गत्य अनुसंधानाय नूतना दिशा प्रदानाऽभवत्। युवा शोध नवोन्मेष स्टार्ट अप च करियर विकल्परूपेण ग्रह्णन्ति इति भारतस्य वैज्ञानिक भविष्यस्य उत्तमं संकेतं वदति।
ते अवदत् यत् भारतं द्रुतगत्या नवोन्मेष आधारित अर्थव्यवस्थायाः दिशि गच्छति। आगामि वर्षेषु राष्ट्रस्य आर्थिक प्रगति विज्ञान प्रौद्योगिकी उद्योग इत्येषां आधारिता भविष्यति तथा च अकादम्याः शोधार्थिनः अस्य परिवर्तनस्य महत्वपूर्ण वाहकाः भविष्यन्ति।
ते अवदत् यत् संस्थाने राष्ट्रीय अन्तरराष्ट्रीय स्तरयोः उल्लेखनीयाः सफलताः प्राप्ताः। एन आई आर एफ द्विसहस्र पञ्चविंशतौ अनुसंधान श्रेण्यां नवम स्थानम् सी डब्ल्यू यू आर मध्ये शीर्ष त्रयाणां अर्धशतांशानां मध्ये स्थितिः नेचर इंडेक्स मध्ये दशम स्थानम् स्किमैगो द्विसहस्र पञ्चविंशतौ नवम स्थानम् इत्येतानि अकादम्याः वर्धमानां प्रतिष्ठां दर्शयन्ति। संस्थाने पञ्चविंशति सहस्राधिकाः शोधपत्राः प्रकाशिताः सन्ति च वर्षे द्विसहस्र चतुर्विंशताउ अष्ट शतम् एकत्रिंशत पी एच डी प्रदत्ताः।
अन्तरराष्ट्रीय सहकारेण अकादमी आस्ट्रेलिया जापान फिनलैंड इत्यादीनां प्रमुख विश्वविद्यालयैः सह संयुक्त अनुसंधान द्वि डिग्री कार्यक्रम वैश्विक अनुसंधान सुविधानां च सुदृढतां कृतवती।
समारोहे चांसलर प्रो पी बालाराम नीति आयोगस्य सदस्यः डॉ वी के पॉल सी एस आई आर महानिदेशकः डॉ एन कलैसेल्वी अन्ये च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार