उपराज्यपालः उच्चस्तरीयोपवेशने केंद्र शासित प्रदेशस्य सुरक्षास्थितिं समीक्षितवान्
जम्मूः, 23 नवंबरमासः (हि.स.)। उपराज्यपालः मनोजः सिन्हा रविवासरे उपवेशनंकृत्वा केन्द्रशासितप्रदेशस्य सम्पूर्णां सुरक्षा स्थितिम् अवलोक्य तदर्थं प्रचलमानानां सुदृढीकरण उपायानां मूल्यांकनम् अकरोत्। उपराज्यपालस्य अध्यक्षतायां सम्पन्नायाम् उच्चस्तरीय ग
उपराज्यपाल ने जम्मू में हाई लेवल मीटिंग की अध्यक्षता की; चीफ सेक्रेटरी, डीजीपी समेत टॉप अधिकारी मौजूद रहे


जम्मूः, 23 नवंबरमासः (हि.स.)। उपराज्यपालः मनोजः सिन्हा रविवासरे उपवेशनंकृत्वा केन्द्रशासितप्रदेशस्य सम्पूर्णां सुरक्षा स्थितिम् अवलोक्य तदर्थं प्रचलमानानां सुदृढीकरण उपायानां मूल्यांकनम् अकरोत्।

उपराज्यपालस्य अध्यक्षतायां सम्पन्नायाम् उच्चस्तरीय गोष्ठ्यां मुख्यसचिवः अटल डुल्लू, डी जी पी नलिन प्रभात, विशेष डी जी समन्वय विभागस्य एस जे एम गिलानी, जम्मू क्षेत्रस्य आई जी बी एस टूटी इत्यादयः वरिष्ठाः अधिकारी उपस्थिताः आसन्। सिविल प्रशासनस्य पुलिस प्रशासनस्य च अन्ये शीर्षाधिकारी अपि सम्मिलिताः।

वार्तानुसारं जम्मू विभागस्य वरिष्ठाधिकारी अपि गोष्ठ्यां उपस्थिताः आसन् येन वर्तमान सुरक्षा परिस्थित्याः पूर्णं मूल्यांकनम् तथा समग्रस्य तैयारी प्रक्रियायाः विस्तृतं पुनरवलोकनम् अभवत्।

स्रोतसां वचनेन उक्तं यत् चर्चायाः केन्द्रबिन्दुः सुरक्षा स्थितिः काउंटर टेरर अभियानेषु प्रचलमानाः क्रियाः च आसन् तथा आगच्छन्ति शिशिरकाले प्रशासनिकसज्जा कथं कर्तव्या इति अपि व्यमृश्यत। उपराज्यपालं प्रति जम्मू काश्मीर प्रदेशे आतंक वातावरणस्य समूल नाशाय यत् प्रयत्नाः क्रियन्ते तेषां विषये विस्तृतः प्रतिवेदनं दत्तः।----------------------

हिन्दुस्थान समाचार