Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 नवंबरमासः (हि.स.)।
दिल्लीमुख्यमन्त्रिणी रेखा गुप्ता उक्तवती यत् भारतीयजनतापक्षस्य प्रत्येकः पन्नाप्रमुखः प्रत्येकः कार्यकर्ता च अस्माकं महत्ता शक्तिः दृढनीवं च भवति। एतेभ्यः एव निश्चिता विजयाधारः इति सा अवदत।
मुख्यमन्त्रिणी अद्य भाजपा-प्रत्याशिन्या वीना असीजा इत्यस्याः समर्थनार्थं आयोजिते पन्नाप्रमुखसम्मेलने पन्नाप्रमुखान् कार्यकर्तृञ्च संबोधितवती। तस्मिन् अवसरि सांसदः प्रवीण खण्डेलवालः, मन्त्रिवर्यः मनजिन्दरसिंहः सिरसा, भाजपा-पदाधिकारीणां च बहवः उपस्थिताः आसन्।
मुख्यमन्त्रिणी उवाच यत् गताष्टमासेषु दिल्लीमध्ये भाजपा-सरकारया कृतानि विकासकार्याणि जनान् प्रति गृहे गृहे नयितुं अस्माभिः कर्तव्यम्। जनानाम् आशिषेभ्यः उपचुनासु द्वादशसु केंद्रेषु कमलस्य प्रस्फुटनं भवितुम् अर्हति। सा क्षेत्रस्य जनान् प्रति निवेदनं कृतवती यत् अस्य वार्ड 65 अशोकविहारस्य निर्वाचनं वीना असीजा इति प्रत्याशी भारीभिः मतैः विजयी क्रियताम्।
मन्त्री मनजिन्दरसिंहः सिरसा उक्तवान् यत् अशोकविहारवार्डे आयोजनं जातं पन्नाप्रमुखसम्मेलनं कार्यकर्तृषु अत्यधिकं उत्साहं दर्शयामास। तस्याः मुख्यमन्त्रिण्याः भाषणेन कार्यकर्तॄणाम् उत्साहवर्धनं जातम्। सः अवदत् यत् संगठनस्य सुदृढीकरणं सर्वेषां कार्यकर्तृणां मनोबलवर्धनं च आवश्यकम्। मुख्यमन्त्रिण्या मार्गदर्शनेन वयं निर्वाचनार्थं भूमिस्तरीयां रणनीतिं विस्तारतः चर्चितवन्तः।
सिरसा अवदत् मया अपि गृहे गृहे गत्वा मतदातृभिः सह सम्पर्कस्य महत्त्वं प्रतिपादितम् यतः वार्ड 65 मध्ये अस्माकं प्रत्याशिन्या वीना असीजा इत्यस्याः विजयः सुनिश्चितो भवेत्। मम पूर्णविश्वासः अस्ति यत् दिल्लीजनाः मुख्यमन्त्रिण्याः कल्याणकारिनीतिषु विश्वासं स्थापयिष्यन्ति तथा भाजपा द्वादशसु अपि सीटासु विजयमेव प्राप्स्यति।
तेनोक्तं यत् कार्यकर्तॄणां ऊर्जा समर्पणं जनता च विश्वासः एते एव अस्माकं महत्ता शक्तिः।
---------------
हिन्दुस्थान समाचार