Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी अद्य दक्षिण अफ्रिकायाः योहान्स्बर्ग नगरे आयोजिते भारत ब्राजील दक्षिण अफ्रिका संवाद मञ्च बैठकायां सहभागी अभवत्। प्रधानमन्त्री मानव केन्द्रित विकासस्य सुदृढीकरणाय प्रौद्योगिक्याः अनिवार्यां भूमिकां निर्दिश्य IBSA Digital Innovation Alliance इत्यस्य निर्माणं प्रस्तावितवान्।
ते अवदन् यत् अस्य गठनेन त्रयाणां राष्ट्राणां मध्ये UPI सदृशं डिजिटल सार्वजनिक पूर्वाधारं CoWIN नामकं स्वास्थ्य मञ्चम् साइबर सुरक्षा पद्धतिः नारी नेतृत्येन प्रेरितः तन्त्र विकासः इत्येतस्य विनिमयः सुगमः भविष्यति। चत्वारिंशत् राष्ट्रेषु प्रवर्तमानानां परियोजनानां सहाय्ये IBSA निधेः उत्तमं कार्यं स्तुत्वा प्रधानमन्त्री जलवायुः अनुकूल कृषये IBSA निधेः नवीनं प्रस्तावं समर्पितवान् येन दक्षिण दक्षिण सहयोगः अधिकं वर्धेत।
प्रधानमन्त्री अवदत् यत् वैश्विक प्रशासनस्य संस्थानानि अद्यापि एकविंशतितम शताब्द्याः वस्तुस्थितेः बहुदूरम् अतः एतेषु परिवर्तनम् अनिवार्यम् इति IBSA देशाः दृढं सन्देशं दद्यु इति सः आग्रहम् अकरोत्। विशेषतः संयुक्त राष्ट्र सुरक्षा परिषदः इदानीं विकल्पः न अपितु अनिवार्यता इति ते निर्दिष्टवन्तः।
आतङ्कवाद निरोधे प्रधानमन्त्री अवदत् यत् दुहरे मापदण्डाः न कदापि स्वीकरणीयाः समन्वयः तु अपरिहार्यः। सुरक्षित विश्वसनीय मानव केन्द्रित कृतिम बुद्धेः मानदण्ड निर्माणे IBSA समूहस्य शक्तिं अपि सः प्रकाशितवान्। आगामी वर्षे भारतदेशे आयोजिते AI Impact Summit इति सम्मेलनाय IBSA नेतॄन् आमन्त्रितवान्।
प्रधानमन्त्री अवदत् यत् IBSA समूहः परस्पर विकासं पूरयितुं शक्नोति सतत विकासस्य आदर्शः च भवितुं शक्नोति। मोट अन्नम् प्राकृतिक कृषि आपद प्रतिरोधी क्षमता हरित ऊर्जा पारम्परिक औषधयः आरोग्य सुरक्षा इत्येषु क्षेत्रेषु सहयोगस्य अवसरान् ते निर्दिश्य।
ते पुनः अवदत् यत् IBSA केवलं त्रयाणां राष्ट्राणां समूहः न अपितु त्रयाणां महाद्वीपानां त्रयः महान् लोकतान्त्रिक राष्ट्राः त्रयः महान्तः अर्थव्यवस्थाश्च एकत्र मिलित्वा निर्मितः अत्यन्त महत्वपूर्णः मञ्चः इति।
अफ्रिका भूमौ प्रथम G20 शिखर सम्मेलनस्य संदर्भे एव एतस्य IBSA गोष्ठ्याः आयोजनं प्रशंस्यं इति प्रधानमन्त्री उक्तवान्। सः अवदत् यत् G20 फलस्वरूपं मानव केन्द्रित विकासः बहुपक्षीय परिवर्तनम् सतत विकासस्य प्रवर्तनम् इत्यादयः आवश्यकाः प्राथमिकताः जाता इति।
एतस्य उपवेशनस्य अध्यक्षत्वं दक्षिण अफ्रिकायाः राष्ट्रपतिः सिरिल रामफोसा अकरोत् यत्र प्रधानमन्त्री मोदिना सह ब्राजील राष्ट्रपतिः लुइज इनासियो लूला दा सिल्वा अपि उपस्थितः।
---------------
हिन्दुस्थान समाचार