दक्षिण-अफ्रीकादेशस्य राष्ट्रपतिना सह प्रधानमन्त्रिणा मोदिना मेलनं कृतं, ग्लोबल–साउथ इत्यस्य स्वरे उच्चीकरणाय सहकार्ये सहमतिः
नवदेहली, 23 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य जी–२० शिखर-सम्मेलनस्य अवसरे जोहान्सबर्ग-नगरे दक्षिण-अफ्रीकादेशस्य राष्ट्रपति सिरिल रामफोसा इत्यनेन सह मिलितवान्। अस्मिन् मेलने उभौ नेतारौ ग्लोबल् साउथ इत्यस्य ध्वनिं उच्चं कर्तुं सार
प्रधानमंत्री दक्षिण अफ्रीका के राष्ट्रपति के साथ प्रतिनिधिमंडल की वार्ता करते हुए


प्रधानमंत्री मोदी दक्षिण अफ्रीका के राष्ट्रपति से मुलाकात करते हुए


नवदेहली, 23 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य जी–२० शिखर-सम्मेलनस्य अवसरे जोहान्सबर्ग-नगरे दक्षिण-अफ्रीकादेशस्य राष्ट्रपति सिरिल रामफोसा इत्यनेन सह मिलितवान्। अस्मिन् मेलने उभौ नेतारौ ग्लोबल् साउथ इत्यस्य ध्वनिं उच्चं कर्तुं सार्धं मिलित्वा कार्यं कर्तुं सहमतिं प्रकटितवन्तौ। प्रधानमन्त्री आईबीएसए नेतॄणाम् उपवेशनस्य आयोजनाय दक्षिण-अफ्रीकादेशस्य पहल-प्रयासस्य प्रशंसां कृतवान्।

भारत–दक्षिण-अफ्रीका-सम्बन्धान् सुदृढीकुर्वन्तान् ऐतिहासिकान् सम्बन्धान् स्मृत्वा उभौ नेतारौ परस्पर-सम्बन्धानां समीक्षां कृतवन्तौ। व्यापार-निवेशयोः, खाद्य-सुरक्षायाः, कौशल-विकासस्य, खननस्य, युव-आदान-प्रदानस्य तथा जन-जन-संबंधानां सहित सहकार्यस्य विविधेषु क्षेत्रेषु जातायाः प्रगतये सन्तोषं प्रकटितवन्तौ। तौ ए.आई., डिजिटल् पब्लिक् इन्फ्रास्ट्रक्चर, आवश्यक-मिनरल्स् इति क्षेत्रेषु सहकार्य-वर्धनस्य उपायान् विषये चर्चां कृतवन्तौ। नेतारौ दक्षिण-अफ्रीकादेशे भारतीय-फर्माणां वर्धमानां उपस्थितिं स्वागतं कृत्वा विशेषतः इन्फ्रास्ट्रक्चर, प्रौद्योगिकी, नवोन्मेष, खनन तथा स्टार्ट-अप्-क्षेत्रेषु परस्पर-निवेशस्य सुकरिकरणे सहमतिं प्रकटितवन्तौ।

प्रधानमन्त्री दक्षिण-अफ्रीकी-चीतानां भारत-आनयनाय राष्ट्रपति रामफोसा इत्यस्मै धन्यवादं दत्त्वा भारत-नेतृत्वेन सञ्चालिते इन्टरनेशनल् बिग् कैट् अलायन्स् इत्यस्मिन् सम्मिलितुं तं आमन्त्रितवान्। उभौ नेतारौ पुनः ग्लोबल् साउथस्य आवाजं बुलन्दं कर्तुं सह मिलित्वा कार्यं कर्तुं सहमतिं प्रकटितवन्तौ। राष्ट्रपति रामफोसा २०२६ तमे वर्षे ब्रिक्स्-संघस्य भारतस्य आगामि-अध्यक्षतायै दक्षिण-अफ्रीकादेशस्य पूर्ण-समर्थनं दास्यतीति आश्वासनं दत्तवान्।

प्रधानमन्त्री तम् उत्तम-आतिथ्याय तथा शिखर-सम्मेलनस्य सफल-आयोजनाय धन्यवादं दत्तवान्। सः नव-देहली-जी२०-शिखर-सम्मेलनस्य समये गृहीतान् निर्णयान् अग्रे नयितुं तेषु कार्यं कर्तुं च दक्षिण-अफ्रीकादेशस्य जी२०-प्रयासान् प्रशंसितवान्।

---------------

हिन्दुस्थान समाचार