Enter your Email Address to subscribe to our newsletters

रायपुरम् 23 नवंबरमासः (हि.स.)।
छत्तीसगढराज्ये अर्हतातिथेः १ जनवरी २०२६ इति कृते मतदाता-सूचीषु विशेषगहन-पुनरीक्षणकार्यं (SIR) ४ नवम्बर २०२५ तारेखातः अत्यन्तगम्भीरतया पारदर्शितया च प्रचलति।
प्रदेशव्यापके पञ्जीकृत-मतदातृभ्यः गणना-प्रपत्राणां वितरणं प्रायः सम्पन्नम् अभवत्; एतेषां प्रपत्राणां संग्रहण-कार्यं डिजिटाइज़ेशन-कार्यं च शीघ्रतया प्रवर्तते।
छत्तीसगढ-निर्वाचन-आयोगात् अद्य प्राप्तया सूचना अनुसारम् २२ नवम्बर २०२५ तारेखात् यावत् प्रदेशे प्रायः ७८ लक्षातिरिक्तानां गणना-प्रपत्राणां डिजिटाइज़ेशन-कार्यं सम्पन्नम्, यत् प्रदेशस्थैः २ कोटि १२ लक्ष ३० सहस्र ७३७ पञ्जीकृत-मतदातृणां प्रायः ३७ प्रतिशतं भवति।
---------------
हिन्दुस्थान समाचार