भू-बैकुंठ-बदरीनाथे अद्य खड्ग-पूजनस्य अनन्तरं निर्बध्यिष्यते वेद-ऋचाणां वाचनम्
देहरादूनम्, 23 नवम्बरमासः (हि.स.)। भू-बैकुण्ठ भगवान् बदरीनाथस्य कपाटाः 25 नवम्बर दिनाङ्के पीहिताः भवितव्याः। कपाट-पिधान-प्रक्रिया 21 नवम्बर दिवसे गणेश-मन्दिरस्य कपाट- पिधानेन सह आरब्धा। अद्य बदरीनाथ-धाम्नि खड्ग-पुस्तक-पूजनानन्तरं वेद-ऋचाणां वाचनं न
भू-बैकुंठ बदरीनाथ


देहरादूनम्, 23 नवम्बरमासः (हि.स.)। भू-बैकुण्ठ भगवान् बदरीनाथस्य कपाटाः 25 नवम्बर दिनाङ्के पीहिताः भवितव्याः। कपाट-पिधान-प्रक्रिया 21 नवम्बर दिवसे गणेश-मन्दिरस्य कपाट- पिधानेन सह आरब्धा। अद्य बदरीनाथ-धाम्नि खड्ग-पुस्तक-पूजनानन्तरं वेद-ऋचाणां वाचनं निवर्तितं भविष्यति तथा च श्वः इत्युक्ते 24 नवम्बर दिनाङ्के मातृ-लक्ष्म्यै कढ़ाई-भोगः निवेद्यते ततो लक्ष्म्यै मन्दिरस्य गर्भगृहे आगन्तुं निमन्त्रणं दास्यते।

25 नवम्बर दिनाङ्के मातृ-लक्ष्म्याः बदरीनाथ-मन्दिरस्य गर्भगृहे प्रवेशः भविष्यति तथा च लक्ष्मी-नारायणौ घृत-कम्बलेन आच्छादितौ भविष्यतः। तस्मिन्नेव दिने शुभ-मुहूर्ते अपराह्णे 2.56 वादने बदरीनाथ-मन्दिरस्य कपाटाः शीत-कालाय पिहिताः भविष्यन्ति। मन्दिरं पुष्पैः अलङ्क्रियते तथा तीर्थ-पुरोहितैः सह स्थानीय-जनाः अपि सज्जतासु संलग्नाः सन्ति।

बदरी-धाम्नः कपाट-पिधानानन्तरं 26 नवम्बर दिवसे प्रभाते श्री-कुबेर-जी तथा उद्धव-जी पाण्डुकेश्वरं प्रति, तथा शंकराचार्य-आसनं नृसिंह-मन्दिरं ज्योर्तिमठं प्रति प्रेष्यते। श्री-बदरी-केदारनाथ-मन्दिर-समितेः अध्यक्षः हेमन्त-द्विवेदी इत्यनेन उक्तम् यत् कपाट-पिधानस्य सर्वाः सज्जताः सम्पन्नाः कृताः। विशाल-संख्यायाम् श्रद्धालवः आगच्छन्ति तथा तेषां कृते सर्वाः सुविधाः व्यवस्थापिताः एव।

हिन्दुस्थान समाचार