विकसित भारतस्य 2047 निर्माणे सिविल सेवकानां भूमिका मुख्या- उपराष्ट्रपतिः
नवदिल्ली, 23 नवंबरमासः (हि.स.) उपराष्ट्रपतिः सीपी राधाकृष्णन् अवदत् यत् सिविल सेवकानां भूमिका विकसित भारत द्विसहस्रं सप्तचत्वारिंशत् लक्ष्यस्य सिद्धौ निर्णायिका भविष्यति। विधेः पालनम् पारदर्शिता च टीम वर्क इति सुशासनस्य आधारशिलाः सन्ति। आन्ध्र प
आंध्र प्रदेश के पलासमुद्रम स्थित राष्ट्रीय सीमा शुल्क, अप्रत्यक्ष कर और नार्कोटिक्स अकादमी (एनएसीआईएन) में सिविल सेवा प्रशिक्षुओं को संबोधित करते हुए उपराष्ट्रपति सीपी राधाकृष्णन


नवदिल्ली, 23 नवंबरमासः (हि.स.)

उपराष्ट्रपतिः सीपी राधाकृष्णन् अवदत् यत् सिविल सेवकानां भूमिका विकसित भारत द्विसहस्रं सप्तचत्वारिंशत् लक्ष्यस्य सिद्धौ निर्णायिका भविष्यति। विधेः पालनम् पारदर्शिता च टीम वर्क इति सुशासनस्य आधारशिलाः सन्ति।

आन्ध्र प्रदेशस्य पलासमुद्रम क्षेत्रे स्थितस्य राष्ट्रीय सीमा शुल्क अप्रत्यक्ष कर नार्कोटिक्स अकादमी नाम एन ए सी आय एन इत्यस्य परिसरमध्ये सिविल सेवा प्रशिक्षार्थिनः सम्बोध्य उपराष्ट्रपति राधाकृष्णन अवदत् यत् वर्षे द्वि सहस्र चतुर्विंशतितमे प्रधानमन्त्रिणा नरेन्द्रेण मोदिनाः एन ए सी आय एन इत्यस्य नूतन परिसरस्य उद्घाटनम् कृत्तम् आसीत्। अद्य तु एतत् संस्थानं सीमा शुल्क जी एस टी प्रशासनयोः क्षमता निर्माणस्य अग्रणी केंद्रम् अभवत्। एषः वर्षः अतः अपि महत्वपूर्णः यत् राष्ट्रं सरदार वल्लभभाई पटेल इत्यस्य शतपञ्चाशत तम जन्मजयंती महोत्सवं आचरति येन अखिल भारतीय सेवायाः दृढा भूमिः स्थापिताः।

ते अवदन् यत् यू पी एस सी इत्येन योग्यता सत्यनिष्ठा निष्पक्षता इत्येतानि सर्वदा प्रधानस्थाने स्थापितानि। भारतस्य विकास यात्रा समावेशी विकासे आधारिताऽस्ति यत्र धन निर्माणं धन वितरणं च उभयं समानतः आवश्यकम्।

ते अवदन् यत् कर चोरी विषये कठोर कार्रवाई अनिवार्या यतः विधयः समाजस्य राष्ट्रस्य च कल्याणार्थं निर्मीयन्ते। अधिकारियों वर्तते एषा जिम्मेदारी यत् ते विधेः प्रभावी निष्पक्ष च पालनं सुनिश्चितयन्तु।

ते प्रशिक्षु अधिकारियों प्रति आवृत्य अवदन् यत् टीम उत्कृष्टतायाः प्राधान्यं अवश्यं दातव्यम्। संस्थाः राष्ट्रं च न व्यक्तिप्रयत्नेन अपि तु समष्टिप्रयासेन निर्मीयते। त्वरितं परिवर्तमाने तन्त्रज्ञान विश्वे कृत्रिम बुद्धिमत्ता मशीन लर्निंग प्राकृतिक भाषा संसाधन ब्लॉकचेन इत्यादीनि प्रौद्योगिकीनि अंगीकर्तुं ते अधिकारियों प्रति आग्रहं चकार। आई जी ओ टी कर्मयोगी इति अस्यां क्षेत्रे उत्कृष्टं क्षमता निर्माण मंचमिति ते अवदत्।

कार्यक्रमे आन्ध्र प्रदेश सरकारस्य मंत्री नारा लोकेश उपराष्ट्रपतेः सचिवोऽमितखरे एन ए सी आय एन महानिदेशको डॉ सुब्रमण्यम् इत्यादयः अपि उपस्थिताः।

---------------

हिन्दुस्थान समाचार